Book Title: Vastupal Prashasti Sangraha
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 268
________________ लोकास्त वदन्ति किं कुर्मः कमुपालभेमहि किमु ध्यायाम कं वा स्तुमः कस्याग्रे स्वमुखं स्वदुःखमलिनं सन्दर्शयामोऽधुना । शुष्कः कामतरुर्यदङ्गणगतश्चिन्तामणिश्चाजरत् क्षीणा कामगवी व कामकलशो भग्नो हहा ! दैवतः ॥ १०३ ॥ ततस्तेजःपालयजयन्तसिंहाभ्यां मन्त्रिदेहस्य शत्रुञ्जयैकदेशे संस्कारः कृतः । संस्कारभूम्यासन्नः स्वर्गारोहणनामा प्रासादो नमिविनमियुतः ऋषभसनाथः कारितः । मन्त्रिण्यौ ललितासोखू अनशनेन मम्रतुः । श्रीतेज: पालस्तु अनुपमासहितो मध्यमव्यापारभोगभाक् लेशतस्तथैव दानं तन्वन् १३०८ द्यामगमत् । शनैः शनैः श्रीजयन्तसिंहोऽपि परलोकमभजत । श्री अनुपमाऽपि तपसा स्वर्गमसाधयदिति भद्रम् । तयोर्मन्त्रिणोः धर्मस्थानसङ्ख्यां कर्तुं क ईश्वरः, परं गुरुमुखश्रुतं किंचिल्लिख्यते । लक्षमेकं सपादं जिनबिम्बानां विधापितम् । अष्टादशकोटयः षण्णवतिलक्षाः श्रीशत्रुञ्जयतीर्थे द्रविणं व्ययितम् । द्वादशकोटयोऽशीतिर्लक्षाः श्रीउज्जयन्ते । द्वादशकोट्यस्त्रिपञ्चाशल्लक्षा अर्बुदगिरिशिखरे लूणिगवसत्याम् । नवशतानि चतुरशीतिश्च पौषधशालाः कारिताः । पञ्चशतानि दन्तमयसिंहासनानाम् । पञ्चशतानि पञ्चोत्तराणि समवसरणानां जादरमयानाम् । ब्रह्मशालाः सप्तशतानि । सप्तशतानि सत्रागाराणाम् । सप्तशती तपस्विकापालिकमठानाम् । सर्वेषां भोजननिर्वापादिदानं कृतम् । त्रिंशच्छतानि द्युत्तराणि महेश्वरायतनानाम् । त्रयोदशशतानि चतुरुत्तराणि शिखरबद्धजैनप्रासादानाम् । त्रयोविंशतिशतानि जीर्णचैत्योद्धाराणाम् । अष्टादशकोटिव्ययेन सरस्वती भाण्डागाराणां त्रयाणां स्थानत्रये करणम् । पञ्चशती ब्राह्मणानां नित्यं वेदपाठं करोति स्म । वर्षमध्ये सङ्घपूजान्नितयम् । पञ्चदशशती श्रमणानां नित्यं गृहे विहरति स्म । तटिककार्पटिकानां सहस्रं समधिकं प्रत्येकमभुक्त । त्रयोदश यात्राः सङ्घपतीभूय कारिताः । तत्र प्रथमयात्रायां चत्वारि सहस्राणि पञ्चशतानि शकटानां सशय्यापालकानां, सप्तशती सुखासनानाम्, अष्टादशशती वाहनानाम्, एकोनविंशतिः शतानि श्रीकरीणाम्, एकविंशतिः शतानि श्वेताम्बराणाम्, एकादशशती दिगम्बराणां, चत्वारि शतानि सार्द्धानि जैनगायनानां त्रयस्त्रिंशच्छती बन्दिजनानाम् । तथा चतुरशीतिस्तडागाः सुबद्धाः । चतुःशती षष्ठ्यधिका वापीनां, पाषाणमयानि द्वात्रिंशद्दुर्गाणि दन्तमयजिनरथानां चतुर्विंशतिः, विंशं शतं सागघटितानाम् । सरस्वतीकण्ठाभरणादीनि चतुर्विंशतिर्बिरुदानि । चतुःषष्टिर्मसीतयः वस्तुपालस्य । दक्षिणस्यां श्रीपर्वतं यावत्, पश्चिमायां प्रभासं यावत्, उत्तरस्यां केदारपर्वतं यावत्, पूर्वस्यां वाणारसीं यावत्तयोः कीर्त्तनानि । सर्वाग्रेण त्रीणि कोटिशतानि चतुर्दशलक्षा अष्टादशसहस्राणि अष्टशतानि द्रव्यव्ययः । त्रिषष्टिवारान् सङ्ग्रामे जैत्रपदं गृहीतम् । अष्टादश वर्षाणि तयोर्व्यापृतिः । श्रीवस्तुपालतेजःपालयोः प्रबन्ध समाप्तः । 1. The portion from this up to the end occurs in Jinaprabha's Tirthakalpa. D:\sukar-p.pm5\2nd proof

Loading...

Page Navigation
1 ... 266 267 268 269