Book Title: Vastupal Prashasti Sangraha
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan
View full book text
________________
इतश्च श्रीवीरधवलस्य द्वौ पुत्रौ स्तः । एको वीरमः, द्वितीयो वीसलः । तत्र वीरमो यौवनस्थः शूरेषु रेखां प्राप्तः, यो वर्षाकालेऽकस्मादुपरि पतन्त्या विद्युत उद्देशेन कृपाणीमाकृषत । स एकदा क्वचिदेकादशीपर्वणि धवलक्ककमध्यतरुतलमगमत् । तत्र पर्वण्यसौ रीति । वैष्णवैः सर्वैरष्टोत्तरशतं बदाणामामलकानां वा द्रम्माणां वा मोक्तव्यम् । तरोरधः वीरमेणाष्टोत्तरं शतं द्रम्माणां मुक्तम् । एकेन तु वणिजा तस्यामेव सभायां स्थितेनाष्टोत्तरं शतमाबूनां मुक्तम् । वीरमेण तस्योपरि कृपाणिका कष्टा । रे ! अस्मत्तः किमधिकर्म करोषीति च वदन वणिजं हन्तुमन्वधावत् । वणिक् नंष्ट्वा वीरधवलाध्यासितां सभामाविशत् । जातः कलकलः । ज्ञातं पारम्पर्य वीरधवलेन । वणिजि पश्यति वीरमो हक्कितः । का ते चर्या यद्ययं त्वदधिकं करोति, अस्माकं न्यायं न वेत्सि । दूरे भव, पुनर्मे दृष्टौ नागन्तव्यम् । वणिजो मम जङ्गमः कोशो मयि जीवति केनाभिभूयन्ते । इत्युक्त्वा तं वीरमग्रामाख्ये आसन्नग्रामेऽतिष्ठिपत् । स तु कौणिककुमारवत् कंसवत् पितरि द्विष्टो जीवन्मृतम्मन्योऽस्थात् । वीसलस्तु राणश्रीवीरधवलस्य वल्लभः श्रीवस्तुपालस्य च । अत्रान्तरे श्रीवीरधवलोऽचिकित्स्येन व्याधिना जग्रसे । तदा वीरमः स्वसहायैर्बलवान् भूत्वा राज्यार्थी राणकमिलनमिषेण धवलक्ककमागात् । तदैव वस्तुपालेन तं दुराशयं ज्ञात्वा प्रत्युत्पन्नमतित्वादश्वगजहेमादिषु परमाप्तमानुषैः परमो यत्नः कृतः । वीरमः प्रभवितुं न शशाक । धवलक्के एव स्वे सौधे विपुलेऽवतस्थे । दिनैस्त्रिभिर्वीरधवलो दिवं गतः। लोकः शोकसमुद्रे पतितः । बहुभिश्चितारोहणं कृतम् । मन्त्री तु सपरिजनः काष्ठानि भक्षयन्नपरापरैर्मन्त्रिभिनिषिद्धः । उक्तं च देव ! त्वयि सति राणपादा स्वयं जीवन्तीव । त्वयि लोकातरिते परिपूर्णाः पिशुनानां मनोरथाः, गता गूर्जरधरा । ततो न मृतो मन्त्री । तत उत्थापनदिने मन्त्री सभासमक्षं पठति
आयान्ति यान्ति च परे ऋतवः क्रमेण सञ्जातमेतदृतुयुग्मगत्वरं तु ।
वीरेण वीरधवलेन विना जनानां वर्षा विलोचनयुगे हृदये निदाघः ॥८९।। अतीव नि:श्वस्य गताः सर्वे स्वस्थानम् । ततश्च मृते वीरधवले तद्राज्यलिप्सुर्वीरमः सन्नह्य गृहान्निर्गमिष्यति यावता, तावता श्रीवस्तुपालेन वीसलकुमारो राज्ये निवेशितः । श्रीवीसलदेव इति नाम प्रख्यापितम् । सर्वराज्याङ्गेषु आप्तनरै रक्षा कारिता । स्वयं वीसलं गृहीत्वा साराश्वरखुरपुटक्षुण्णक्षमापीठोच्छलद्रजःपुञ्जस्थगितव्योमा राजन्यकक्रूरकरवालशल्यभल्लकिरणद्विगुणद्योतितरविकिरणो वीरमसम्मुखो ययौ । दारुणः समरो जज्ञे । वीरमः स्वस्य तेजसोऽनवकाशं मन्यमानो नष्ट्वाश्वसुरेण राजकुलेनोदयसिंहेनाधिष्ठितं जाबालिपुरं प्रत्यचालीत् । मन्त्री तस्याशयं दक्षतया ज्ञात्वा षोडशयोजनिकान्नरानुदयसिंहान्तिके प्रेषीत् । आख्यापयत् यथाऽमुं राजद्विष्टकारकं जामातृज्ञातेयेन यदि स्वान्तिके स्थापयिष्यसि, तदा तेन राज्यं न जीवितव्यं च । हन्याश्चैनम् । ततो वीरमो जाबालिपुरोधानं प्राप्तः । तदा विश्राम्यन्नङ्गरक्षामुत्तारयन् अलसायमान उदयसिंहनियुक्तैर्धनुर्धरैः शरशतजर्जरश्चालनीप्रायकायः कृतः मृतश्च । तस्य शिरो वीसलदेवाय
D:\sukar-p.pm5\2nd proof

Page Navigation
1 ... 262 263 264 265 266 267 268 269