Book Title: Vastupal Prashasti Sangraha
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan
View full book text
________________
ततोऽधिकं जिनधर्मे रमे ।
अथैकदा द्वावपि भ्रातरौ श्रीवीरधवलं व्यजिज्ञपताम् । देव ! देवपादैरियं गूर्जरधरा साधिता। राष्ट्रान्तराणि करदानि । यद्यादेशः स्यात्तदा राज्याभिषेकोत्सवः क्रियते । राणकेनोक्तं मन्त्रिणौ ऋजू भक्तिजडौ ।
अजित्वा सार्णवामुर्वीमनिष्ट्वा विविधैर्मखैः ।
अदत्वा चार्थमर्थिभ्यो भवेयं पार्थिवः कथम् ? ॥४५॥ अतो राणकत्वमेवास्तु । इत्युक्त्वा व्यसृजत्तौ ।
एकदा मन्त्रिभ्यां श्रीसोमेश्वरादिकविभ्यो विपुला वृत्तिः कृता भूम्यादिदानैः । ततः पठितं सोमेश्वरेण
सूत्रे वृत्तिः कृता पूर्वं दुर्गसिंहेन धीमता ।
विसूत्रे तु कृता तेषां वस्तुपालेन मन्त्रिणा ॥ ४६॥
श्री वीरधवलोsपि सेवकान्सुष्ठु पदवीमारोपयन् जगत्प्रियोऽभूत् । किमुच्यते तस्य ? पश्यत ! पश्यत ! । श्रीवीरधवलो ग्रीष्मे चन्द्रशालायां सुप्तोऽस्ति, वण्ठश्चरणौ चम्पयत्येकः । पटीपिहितवदनो जाग्रदपि वण्ठेन सुप्तो मेने । ततश्चरणाङ्गुलिस्था रत्नाङ्कमुद्रा जगृहे, मुखे च चिक्षिपे । राणकेन किमपि नोक्तम् । उत्थितो राणः । भाण्डागारिकपार्श्वद्गृहीत्वाऽन्या मुद्रा तादृगेव पादाङ्गुलौ स्थापिता । द्वितीयदिने पुना राणस्तत्रैव चन्द्रशालायां प्रसुप्तः । वण्ठश्चरणौ चम्पयति । राणः पटीस्थगितवदनोऽस्ति । वण्ठः पुनः पुनर्मुद्रामालोकते । अहो प्राक्तनीवेयं । ततो राणकः प्राह भोम् वण्ठ ! इमां मुद्रां मा ग्रहीः, या कल्ये गृहीता सा गृहीता । तद्वचनाकर्णन एव वण्ठो भीत्या वज्राहत इवास्थात् । यतः
हसन्नपि नृपो हन्ति मानयन्नपि दुर्जनः ।
स्पृशन्नपि गजो हन्ति जिघ्रन्नपि भुजङ्गमः ॥४७॥
तां तस्य दीनतां दृष्ट्वा राणेन भणितं वत्स ! मा भैषीः । अस्माकमेवायं कार्पण्यदोषो येन तेऽल्पा वृत्तिः । इच्छा न पूर्यते, ततो बह्वपाये चौर्यबुद्धिः । अतः परं हय आरोहाय दीयमानोऽस्ति लक्षार्थं वृत्तौ । इत्याश्वासितः सः । अतो वीरधवलः क्षमापरत्वाज्जगद्वल्लभः सेवकसदाफलत्वेन पप्रथे । स सहजदयार्द्र इति मन्त्रिभ्यां रहः कथान्तरे शान्तपर्वणि द्वैपायनोक्तभीष्मयुधिष्ठिरोपदेशद्वारायातं द्वैपायनोक्तं द्वात्रिंशदधिकारमयेतिहासशास्त्रीयाऽष्टाविंशाधिकारस्थं च शिवपुराणमध्यगतं च मांसपरिहारं व्याख्याय व्याख्याय प्रायो मांसमद्यमृगयाविमुखः कृतः । मलधारिश्रीदेवप्रभवसूरिसविधे व्याख्यां श्रावं श्रावं सविशेषं तेन तत्त्वपरिमिलितमतिः कृतः । अन्येद्युर्वस्तुपालो ब्राह्मे मुहूर्ते विमृशति । यद्यर्हद्यात्रा विस्तरेण क्रियते तदा श्रीः फलवती । वञ्चयित्वा जनानेतान्सुकृतं गृह्यते श्रिया । तत्ततो गृह्यते येन स तु धूर्तधुरन्धरः ॥ ४८ ॥
D:\sukar-p.pm5 \ 2nd proof

Page Navigation
1 ... 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269