Book Title: Vastupal Prashasti Sangraha
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 250
________________ कश्चित्तु- क्रमेण मन्दीकृतकर्णशक्तिः प्रकाशयन्ती च बलिस्वभावम् । ___ कैर्नानुभूता सशिरःप्रकम्पं जरेव दत्तिस्तव वस्तुपाल ! ॥३७।। तेभ्यः कविभ्यः सहस्रलक्षाणि ददिरे । एवं गायनभट्टादिभ्योऽपि । यावज्जातं प्रातरिव, तदा मल्लवादिभिः स्वसेवकास्चैत्यद्वारद्वयेऽपि नियुक्ताः । एकं द्वारमन्यदिशि, एकं च मठदिशि। उक्तं च तेभ्यः, मन्त्री चैत्यान्निःसरन् ज्ञापनीयः । क्षणेन वस्तुपालो मठद्वारन्निर्गच्छति, तावता सेवकज्ञापिताः सूरयः संमुखाः स्थिताः । मन्त्रिणा रीढया भ्रूप्रणाम इव कृतः । आचार्यैरभिहितम् "दूरे कर्णरसायनं निकटतस्तृष्मापि नो शाम्यति" विजीयतां, तीर्थानि पूज्यताम् । मन्त्री कौतुकात्तथैव तस्थौ, किं पर्यवसानेयं प्रस्तावनेति ध्यानादूचे च । न विद्मः परमार्थं किमतेदधिधद्धे । आचार्यैरुक्तं पुरो गम्यतां, भवतां कार्यणि भूयांसि । मन्त्री सविशेष पृच्छति । सूरयो वदन्ति सचिवेन्द्र ! श्रूयताम् । मरुग्रामे क्वचिद् ग्रामाराः स्थूलबहुललोमशाः पशवो वसन्ति पर्षदि निषीदन्ति, कपोलझल्लरी वादयन्ति । तत्रैकदा वेलाकूलीयचर: पान्थ आगमत् । नवीन इति कृत्वा ग्राम्यैराहूतः, पृष्टः, कस्त्वं क्वत्यः । तेनोक्तं समुद्रतटेऽवातत्सम् । पान्थः पुरो यामिकैः पृष्टः, समुद्रः केन खानितः । तेनोचे स्वयम्भूः सः पुनस्तैः पृष्टं कियान्सः । पान्थेनोक्तमलब्धपारः । किं तत्रास्ते इति पृष्ट पुनस्तेनाचख्ये ग्रावाणो मणयो हरिर्जलचरो लक्ष्मीः पयोमानुषी मुक्तौघाः सिकताः प्रवाललतिकाः शेवालमम्भः सुधा । तीरे कल्पमहीरुहः किमपरं नाम्नापि रत्नाकरः ॥३८॥ इति पादत्रयं पठित्वा व्याख्याय पुरो गतः पान्थः । तेषु ग्राम्येष्वेकः सकौतुक: पृच्छम्पृच्छं समुद्रतटमगात् । दृष्टः कल्लोलमालाचुम्बितगगनाग्रः समुद्रः । तुष्टः सः, अचिन्तयच्च ऋद्धयः सर्वा लप्स्यन्ते, प्रथमं तृषितः सलिलं पिबामि । तद्दग्धः कोष्ठः । ततः पठति वरि वियरो जहि जणु पियइ घुट्टग्घुटु चुलुएहिं । सायरि अत्थि बहु य जल छि खारडं किं तेण ॥३९॥ तैरेव पादैनष्टः स्वास्पदं गतः । तथा वयमपि स्मः । मन्त्रिणोक्तं कथं तथा यूयं, यथा स ग्राम्यः । सूरयस्तारमूचुः । महामात्य ! वयमिह पार्श्वनाथसेवकाः विद्यविद्याविदः सूरयस्तारमूचुः। महामात्य ! वयमिह पार्श्वनाथसेवकाः विद्यविद्याविदः सर्वर्द्धयः शृणुमः, यथा धवलक्कके श्रीवस्तुपालो मन्त्री सरस्वतीकण्ठा भरणो भारतीप्रतिपन्नपुत्रो विद्वज्जनमधुकरसहकार: सारासारविचारविदास्ते । तदुत्कण्ठितास्तत्रागन्तुमीश्वरत्वाच्च न गच्छामः । क्वापि कदाचिदत्र तीर्थमित्येताऽत्र मन्त्री । तस्यपुरो वक्ष्यामः स्वैरं सूक्तानि इति ध्यायतामस्माकं मन्त्रिमिश्रा अप्यागताः । यावत्पठ्यते किमपि तावदसम्भावनयाऽवज्ञापरा यूयं स्थिताः । ततः किं पठ्यते गच्छत, उत्सूरं भवति । मन्त्री प्राह मम मन्तुः क्षम्यतां, किमेतत् पठितुमारेभे भवद्भिः । आचार्या D:\sukar-p.pm5\2nd proof

Loading...

Page Navigation
1 ... 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269