Book Title: Vastupal Prashasti Sangraha
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 248
________________ पन्थामेको न कदापि गच्छेदिति स्मृतिप्रोक्तमिव स्मरन्तौ । तौ भ्रातरौ संसृतिमोहचौरे सम्भूय धर्माध्वनि सम्प्रवृत्तौ ॥३१॥ अथ वस्तुपालः शुभे मुहूर्ते स्तम्भतीर्थं गतः । तत्र मिलितं चातुर्वर्ण्य, दानेन तोषितं सर्वम् । तत्र सदीकनामा नौवित्तकः । स च सर्ववेलाकूलेषु प्रसरमाणविभवो बद्धमूलः अधिकारिणं नन्तुं नायाति, प्रत्युत तत्पार्वेऽधिकारिणा गन्तव्यम् । एवं बहुकालो गतः । पूर्वं मन्त्रीन्द्रस्तं भट्टेनोवाच अस्मानन्नन्तुं किमिति नागच्छसि ? । स वक्ति न नवेयं रीतिः, प्रागपि नागच्छामि, यत्तु स्यान्नूनं तव तत्पूरयामि स्थानस्थः । तच्छ्रुत्वा मन्त्री रुष्टः कथापयामास पुरुषो भूत्वा तिष्ठेः, शास्मि त्वां दुविनीतम् । ततस्तेन वडूआख्यवेलाकूलस्वामी राजपुत्रः पञ्चाशद्वंशमध्यस्थखादिरमुशलस्यच्छेदने खड्गेन प्रभुः, प्रभूतसैन्यत्वात्साहणसमुद्र इति ख्यातः शङ्खाख्य उत्थापितः । तेन भाणितं मन्त्रिगणे । मन्त्रिन्मदीयमेकं नौवित्तकं न सहसे, मदीयमित्रमसौ । तस्माद्वचनात्क्रुद्धो मन्त्री प्रत्यवीवचत् । श्मशानवासी भुत्तेभ्यो न बिभेति । त्वमेव प्रगुणो भूत्वा युधि तिष्ठेथाः । सन्नद्धः सः । मन्त्रिवस्तुपालोऽपि धवलक्काकाद्भूरिसैन्यमानाय्याभ्यषेणयत् । रणक्षेत्रेऽदितौ द्वौ । शङ्केन निर्दलितं मन्त्रिसैन्यं पलायिष्ट दिशो दिशि । तदा वस्तुपालेन स्वराजपुत्रो माहेबकनामा भाषितः । इदमस्मन्मूलघट्टं वर्त्तते, तत्कुरु येन श्रीवीरधवलो न लज्जते । ततोऽसौ राजपुत्रः स्वैरेव कतिपयैर्मित्रराजपुत्रैः सह तमभिगम्योवाच । शङ्ख ! नेयं वडूयाख्या ग्रामवाटिका, क्षत्रियाणां सङ्ग्रामोऽयम् । शङ्खोप्याह सुष्ठ वक्तुं वेत्सि नायं तव प्रभोः पट्टकिलपरिपन्थनप्रदेशः, किन्तु सुभटस्य क्रीडाक्षेत्रमिदमित्येवं वादे जाते द्वन्द्वरणे माहिबकेन मन्त्रिणि पश्यति मन्त्रिप्रतापाच्छङ्कः पातितः । समरे जातो जयजयाकारः । मन्त्रिणा तद्राज्यं गृहीतम् । वेलाकूलऋद्धीनां का सङ्ख्या । ततः स्तम्भतीर्थमुत्तोरणमुत्पताकमविशत् । प्रविष्टः सदीकसदनम् । तस्य भटानां सप्त द्विगुणशतानि सन्नद्धानि हत्वा सजीवग्राहं जग्राह, विद्रुवाणं तं कृपाणेन जघान । ततो गृहमामूलचूलं खांत पातितम् । हेमेष्टिकानां सङ्ख्या न, तथा मणिमुक्ताफलपदकानाम् । आयातो मन्त्री स्वधवलगृहम् , तोषितः स्वस्वामी वीरधवल: परिग्रहलोकश्च । ततः स्तुतिः श्रीवस्तुपाल ! प्रतिपक्षकाल ! त्वया प्रपेदे पुरुषोत्तमत्वम् । तीरेऽपि वार्द्धरकृतेऽपि मात्स्ये रूपे पराजीयत येन शङ्खः ॥३२॥ तावल्लीलाकवलितसरित्तावदभ्रंलिहोर्मिस्तावत्तीव्रध्वनितमुखरस्तावदज्ञातसीमा । तावत्प्रेङ्घत्कमठमकरव्यूहबन्धुः स सिन्धुः लोपामुद्रासहचरकरक्रोडवर्ती न यावत् ॥३३॥ 1. This verse occurs in the Mt. Abu Prasasti with some difference in readings. D:\sukar-p.pm5\2nd proof

Loading...

Page Navigation
1 ... 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269