Book Title: Vastupal Prashasti Sangraha
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan
View full book text
________________
२२६ ]
[ सुकृतकीर्त्तिकल्लोलिन्यादिवस्तुपालप्रशस्तिसङ्ग्रहः ॥
वृत्तिच्छेदविधौ द्विजातिमरणे स्वामिग्रहे गोग्रहे
सम्प्राप्ते शरणे कलत्रहरणे मित्रापदां वारणे ।
आर्तत्राणपरायणैकमनसां येषां न शस्त्रग्रहः तानालोक्य विलोकितुं मृगयते सूर्योऽपि सूर्यान्तरम् ||२९||
इति वदन्नेव ससेनस्तुरङ्गममारूढः, जातोऽनुपदं गोहर्तॄणाम् । गोहर्त्तारोऽपि घूघुलाय दर्शनं ददिरे, शरान्संदधिरे, न च स्थित्वा युध्यन्ते । इत्येवं खेदयद्भिस्तैस्तावन्नीतो घूघुलः यावन्मन्रिणो महति वृन्दे पतितः । तेन ज्ञातमीदृशं छद्मेदं मन्त्रिणः । भवतु तावत् घूघुलोऽस्मि । निजाः सुभटाः समराय प्रेरिताः । स्वयमविशेषमभियोगं दधौ । ततो लग्नः संहर्तुम् मन्त्रिपृतनापि डुढौके। चिरं रणरसरभसोऽभूद् । भग्नं घूघुलेन मन्त्रिकटकम् । कान्दिशीकं दिशो दिशि गच्छति । तदा मन्त्रितेज: पालेन स्थिरमश्वस्थितेन तटस्थाः सप्तकुलीनाः शुद्धराजपुत्रा भाषिताः । अरिस्तावद्बली, आत्मीयं तु भग्नं सकलं सैन्यम् । नष्टानामस्माकं का गतिः, किं यशः ? । जीवितव्यमपि नास्त्येव । तस्मात्कुर्मः समुचितम् । तैरपि सप्तभिस्तद्वाचाऽभिमतम् । व्याघुटिता अष्टौ, घ्नन्ति नाराचादिभिः परसैन्यम् । तावन्मात्रं स्ववृन्दं सङ्घटितम् । दृष्ट्वा परेऽपि सत्त्वं धृत्वा चलिताः । तदा तेज:पाल एकत्र अम्बिकां देवीमपरत्र कपर्द्दियक्षं पश्यति । जयं निश्चित्य प्रसरं तावद्ययौ यावद्भूघुल: गत्त्वा भाषितः । मण्डलीक ! येनास्मन्नाथाय कज्जलगृहादि प्रहीयते तद्भुजबलं दर्शय । घूघुलोऽपि प्रत्याह इदं भुजबलं पश्य इत्युक्त्वा निबिडं युयुधे । द्वन्द्वयुद्धं मन्त्रिमण्डलीकयोः । अथ मन्त्री सहसा दैवतबलाद्भुजबालाच्च तमश्वादपीपतत्, जीवन्तं बद्धा काष्ठपञ्जरेऽचिक्षिपत्, स्वसैन्यान्तर्निनाय । स्वयं बहुपरिच्छदो गोध्रानगरं प्रविवेश । अष्टादश कोटीः हेम्नां कोशम्, अश्वसहस्राणि चत्वारि, मूटकं शुद्धमुक्ताफलानां दिव्यास्त्राणि, दिव्यवसनानि, सर्वं जग्राह । घूघुलस्थाने आत्मीयं सेवकं न्यास्थत् । चलितो मन्त्री, गतो धवलक्ककं, दर्शितो घूघुलः । वीरधवलेन तत्कज्जलगृहं तद्गले बद्धं शाटिका वंठैः परिधापिता। तदा घूघुलः स्वदन्तैर्जिह्वां खण्डयित्वा मृतः । जातं वर्द्धापनकं धवलक्क । श्रीवीरधवलेन महत्यां सभायामाकार्य श्रीतेज: पालः परिधापितः । प्रसादपदे भूरि भूरि ददे । कवीश्वरे सोमेश्वरे च दृक् सञ्चरिता । ततः सोमेश्वरदेवः प्राह
मार्गे कर्दमसङ्कुले जलभृते गर्त्ताशतैराकुले
खिन्ने शाकटिके भरेऽतिविषमे दूरं गते रोधसि । शब्दैनैतदहं ब्रवीमि सततं कृत्वोच्छ्रितां तर्जनी
मीदृक्षे विषमे विहाय धवलं वोढुं भरं कः क्षमः ||३०||
विसृष्टा सभा । मिलितौ वस्तुपालतेज: पालावेकत्र । कृताः कथाश्चिरम् । तुष्टौ द्वौ मन्त्रये स्म । धर्म एव धनमिदं दत्ते । धर्मे एव व्ययनीयम् । ततः सविशेषं तथैव कुरुत: । ततः कविना केनाप्युक्तम्—
D:\sukar-p.pm5 \ 2nd proof

Page Navigation
1 ... 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269