Book Title: Uttaradhyayanasutra Curni
Author(s): Devvachak, 
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 241
________________ श्रीउत्तरा० चूर्णौ १५ भिक्षु ॥२३७॥ इत्यर्थः एवमादिभिर्विद्यादिभिर्यो न जीवति स भिक्षुर्भवति । 'मतं मूलं० ॥५०२४२०॥ इत्यादि, मन्त्रान् साधुकरणान् ज्ञात्वापि प्रकाशयेत् एवं मूलानि तथा विविधान् वैद्यचिन्तान् वमनविरेचन धूमनेत्रस्नात्रादिकान् न प्रकाशनेत्, तथा आतुरशरणं विचिकित्सार्थं न कुर्यात्, तं जाणणापरिण्णाए परिजाणिऊं अनंतरं पच्चक्खाणपरिन्नाए प्रत्याख्यानं करोति स भिक्षुर्भवति । 'खत्तियगण० ॥ ५०३-४२० ॥ इत्यादि, क्षत्रिया - राजानः, गणा - मल्लगणादयः, 'उग्गा' दण्डपाशिकादयः, राजपुत्रा ब्राह्मणभोगिका, विविधाश्च शिल्पिनः, एतेषां निःशीलानां प्रशंसां पूजनं वा न करोति स भिक्षुर्भवति । 'गिहिणो०' ॥ ५०३ ॥ इत्यादि, गृहस्था ये प्रब्रजितेन दृष्टाः अप्रब्रजितेन वा, तेषां निःशीलानामिहलो कफलार्थं यः संस्तवं न करोति स भिक्षुर्भवति । 'सयणासण० ' ||५०४-४२०॥ इत्यादि, शयनासनपानभोजनानि, परकीयं यदि तं परो न ददाति प्रतिषेधयति वा, प्रतिषेधितो वा निर्वृत्तः सन् यः | प्रद्वेषं न करोति स भिक्षुर्भवति । जं किंचाहार० ॥ ५०५-४२० ॥ इत्यादि, यत्किचिदाहारं परतो लब्ध्वा यस्तेन आचार्योपाध्यायादि त्रिविधेन नानुकम्पति, 'जइ मे अनुग्गहं कुज्जा, साधु होज्जामि तारिओ' यदि मनसा एवं चिंतयति, वाचा सर्वादरेण यथापरिपाट्या निमन्त्रयति, कायेन च परार्थेन ददाति स भिक्षुर्भवति, यः पुनर्मनसा वचसा कायेन च सुसंवृत्तः स भिक्षुर्भवति । 'आयामगं चेव० ॥५०६-४२०॥ इत्यादि, आयामादि प्रसिद्धमेव नीरसं पिंडं पानकं वा लब्ध्वा'णो हीलये' न द्वेषं गच्छेत्, प्रान्तकुलादि च यः परिव्रजति पर्यटति स भिक्षुर्भवति । 'सद्दा विविधा०' || ५०७ ॥ इत्यादि, शब्दा विविधा नानाप्रकारा लोके भवन्ति, दिव्या मानुष्यकाः तैरश्वाश्च भीमा भयानकाः भयमैरवाः सुतरां उच्चासनका ओराला-महंगा उपसर्गादिषु भवंति यस्तान् श्रुत्वा | सतेन न बीभेति स भिक्षुर्भवति । 'वायं विविहं०' ॥५०८-४२० ॥ इत्यादि, वादं विविधं नानाप्रकारं समिच्च सं एत्य-ज्ञात्वा छ भिक्षु लक्षणं ॥२३७॥

Loading...

Page Navigation
1 ... 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290