Book Title: Uttaradhyayanasutra Curni
Author(s): Devvachak, 
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 269
________________ श्रीउत्तरा० चूर्णौ २३ केशिगौत० ॥२६५॥ पदार्थानां विनिश्चयं आलोच्य देशकालानुरूपं धर्म कथयति तीर्थकराः, किं तद्विप्रत्ययकारणं, तदुच्यते, द्वादश कारणानि, सूत्रोक्ता 'नि) एव नियुक्तिकारेण प्रोक्तानि, 'सिक्खा वया य' इत्यादि ( ४५५ - ६ - ७ ) गाथात्रय संगृहीतानि, शिक्षापदानि पंच महाव्रतानि चत्वारि किमित्यभिहितानि प्रथमं, तथा लिंगद्विविध्यं किमिति द्वितीयं, आत्मा कषाया इंद्रियाणि च शस्त्रं तत्तृतीय, पाशानां अवकर्शनं, वृत्तीच्छेदने पाशानां छेदनमित्यर्थः, रागद्वेषादयः पाशः, चतुर्थं तंतूद्धरणबंधने, तंतू-भवलता उद्धरणं-नाशनं तद् बंधने कृते भवलता उद्धृता) भवति, अग्निविध्यायनं च पंचमं, अग्निः कषायः निर्वापणं श्रुतं शीलं च६, दुष्टाश्वो मनः७, पथः सम्यग्ज्ञानदर्शनचारित्राणि तस्य परिज्ञानं ८, महापरिश्रोतानि - मिथ्यादर्शनाविरतिप्रमादकषाययोगाः तेषां निवारणं ९, संसारावस्य पारगमनं १० तम:- अज्ञानं तस्य विघार्ट - प्रकाशकिरणं ११, मोक्षस्थानस्य उपसंपदा, मोक्षस्थान प्राप्तिरित्यर्थः १२, एवमेतानि द्वादश स्थानानि सूत्रे व्याख्यातानि पुरिमाण दुब्बिसोज्यो उ इत्यादि प्रथमतीर्थकर शिष्याणां दुर्विशोध्यः संयमः, ऋजुजडत्वात्, पश्चिमतीर्थकर शिष्याणां दुरनुपालकः संयमः, वक्रजडत्वात्, मध्यमतीर्थकर शिष्याणां ऋजुप्रज्ञत्वात् सुविशोध्यः सुखं चानुपालयः, अतो- अनेन कारणेन द्विधा प्रकल्पितः। साधु गोतम 'इत्यादि, सर्वत्र पृच्छा उत्तरं च बोद्धव्यं, तथा अ (स) चेलको मध्यमतीर्थकरैः, स( अ ) चेलकः प्रथमपश्चिमैर्धर्मः प्रदर्शितः, लिंगद्वैविध्येऽपि इदमेव कारणं, तथा च संयमयात्रार्थमात्रकं (ग्रहणं) अग्रहणं भवितव्यमिति, परमार्थतस्तु ज्ञानदर्शनचारित्राणि मोक्षकारणं, न लिंगादीनि एवं द्वादशसु कारणेषु व्याख्यातेषु केश्याचार्यो गौतमस्य स्तुतिं करोति, साधु गोमत! पन्ना ले, छिन्नो मे संसओ इमो नमो ते संस्यातीत !, सव्वसत्तमहोदही ।। ९१६ ।। एवं तु संसए छिन्ने, केसी घोरपरक्कमो । वंदित्तु पंजलिउडो, गोतमं तु महामुणी ||९१७|| पंचमहन्वयजुत्तं, भावतो विप्रत्ययकारणानि ॥२६५॥

Loading...

Page Navigation
1 ... 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290