Book Title: Uttaradhyayanasutra Curni
Author(s): Devvachak,
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
संवेगादि
श्रीउत्तरा
चूणों
३० तपोमार्ग.
॥२७३॥
मेवाप्रमादः करणीयः, स एव मोक्षमार्गः, अनेन सम्बन्धेनायातस्यास्याध्ययनस्यानुयोगद्वारचतुष्टयं पूर्ववत व्यावर्ण्य नामनिष्प निक्षेपे अप्पमादज्झयणति, आदानपदेनेदमध्ययनं सम्यक्त्वपराक्रममभिधीयते, गौणी संज्ञा अप्रमादश्रुतमिति, अन्ये तु वीतरा. गश्रुतमिति, तत्र द्रव्ये पत्रादिलिखितं, अथवा व्यतिरिक्तं सूत्रं पंचप्रकारं अंडजादि, उक्तो नामनिष्फण्णो निक्षेपः, इदानीं सूत्राला- | पकस्यावसरः,अस्माद्यावत सूत्रं निपतितं तावद्वक्तव्यं,मत्रं चेदं-'सुतं मे आउसं तेण(१३सू०५७२)मित्यादि सर्व, सम्यक्त्वसहितस्य पराक्रमः सम्यक्त्वपराक्रमः, पराक्रमः- उत्साहो, वक्ष्यमाणेषु प्रयोजनेषु उत्साहः करणीयः, प्रत्येककारणानि सिद्धयन्ति, संसारे स्थितश्च भवति संचिग्नः, 'ओपिजी भयचलनयोः संसारोद्विग्नः, उक्तंच- यथा मृगा मृत्युभयस्य भीता, उद्विग्नवासा न लभन्ति निद्राम् । एवं बुधा ज्ञानविबोधितात्मा, संसारभीता न लभन्ति निद्रां ॥१॥" संवेगेन कृतेन को गुणो भवति , तदुच्यते- संवेगणं भंते (जीवे)किं जणयति?, गोयमा संवेगेणंसद्धाजणयति'(१५सू०५९८ एवं सर्वेषु पदेषु पुच्छानिबन्धनं वाच्यं,निव्वेतेण सातासौख्यात् गृहस्वजनबन्ध च निर्वेदं करोति, निर्विनः सन् धम्मै उद्यम करोति, भावसत्यं प्रतिलेखनादिक्रियां यथोक्ता सम्यगुपयुक्तः करोति, योगा-मनोवाक्कायाः, सत्यमनोयोगः कर्तव्यः, नासत्यमनोयोगः, एवं वागपि, काये लंघनप्लवनडेवनादि न करोति, एवं यावत् संभोगभत्तपच्चक्खाणेणं अणियदि जणयति, अत्र प्रवृत्तौ प्रत्याख्यानशब्दो, यथा अम्बुव्रतो, अनिवृत्तिश्च तस्मिन् सयोगे भवति । सेलेसी ण भंते ! किं जणयति ?, अकम्मताए जीवा सिझंति बुज्झति मुच्चंति परिनिव्वायंति सव- दुक्खाणं अंतं करेंति, बचीमीति, नयाः पूर्ववत् ॥ समाप्तं एकोनत्रिंशत्तमम् ।।
उक्तं एकोनत्रिंशत्तम, तस्य कोऽभिसम्बन्धः, एकोनत्रिंशत्तमे आमादो व्यावर्णितः, त्रिंशत्तमे तपोऽभिधीयते, तच्च तपः
२७३।।

Page Navigation
1 ... 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290