Book Title: Uttaradhyayanasutra Curni
Author(s): Devvachak, 
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 282
________________ श्रीउतरा० चूर्णो ३४ लेश्याध्य० ॥२७८॥ सप्तभेदं अनन्तानुबन्धिनः क्रोधमानमायालोभाः सम्यक्त्वं सम्यग्मिथ्यात्वं मिथ्यात्वं, चरित्त मोहनीयं एकविंशतिभेदं अप्रत्याख्यानाः क्रोधादयश्वत्वारः प्रत्याख्यानावरणा क्रोधादयश्वत्वारः संज्वलन क्रोधादयश्वत्वारः हास्यरत्यरतिभयशोकजुगुप्सास्त्रीपुंनपुंसकवेदा, एषामुदयादेतानि भवन्ति, आयुष्कं चतुर्भेदं नरकतिर्यग्योनिमनुष्यदेवानि, एषामुदयात्, नाम द्विचत्वारिंशद्भेदं शुभमशुभं च 'अनयोरुदयात्, गोत्रं द्विविधं शुभमशुभं च अनयोरुदयात्, अन्तरायं पंचप्रकारं दानलाभभोगोपभोगवीर्याणि च एतान्यपि तदुदयादेव भवति । इदानीं स्थितिबन्धोऽभिधीयते - णाणावरणीयस्य स्थितिः जघन्येनान्तर्मुहूर्त्त उत्कृष्टेन त्रिंशत्सागरोपमकोटाकोट्यः त्रीणि च वर्षसहस्राणि आवाधा अंतरं भवति, बाट लोडने, न बाधा अबाधा, तत्र उदयो न भवतीत्यर्थः, तैश्व सत्स्थितिरुना भवति, एवं दर्शनावरणीयान्तराययोः, वेदनीयस्थितिर्जघन्येन द्वादश मुहूर्त्ता उत्कृष्टेन त्रिंशत्सागरोपमकोटी कोट्यः, शेषं तदेव, मोहनीयं द्विविधं दर्शनमोहनीयं चारित्रमोहनीयं च दर्शनमोहनीयं जघन्येनान्तर्मुहूर्त्त उत्कृष्टेन चत्वारिंशत्सागरोपमकोटीकोटयः, चत्वारि वर्षसहस्राण्याबाधा अन्तरं भवति, शेषं तदेव चारित्रमोहनीस्य जघन्येनान्तर्मुहूर्त्त उत्कृष्टेन सप्ततिः सागरी|पकोटाकोटयः, सप्त वर्षसहस्राणि आबाधा अन्वरं भवति, शेषं तदेव, आयुष्कस्य जघन्येनान्तर्मुहूर्त्त उत्कृष्टेन त्रयस्त्रिंशत्सागरोपमानि, नामगोत्रयोर्जघन्येन अष्टौ मुहूर्त्ता, उत्कृष्टेन विंशतिः सागरोपमकोटा कोट्यः, वर्षसहस्रद्वयं आबाधा अंतरं भवति, शेष तदेव । इयपथस्य कर्मणः स्थितिर्जघन्येन उत्कृष्टेन च समयः, अनुभावप्रदेशबन्धौ पूर्वोक्तौ कर्म्मबन्धकरणानां संवरः करणीयः, बद्धानां क्षपनं प्रति यत्नः करणीय इति ब्रवीमि नयाः पूर्ववत् ॥ इति त्रयस्त्रिंशत्तममध्ययनं समाप्तम् ॥ उक्तं त्रयस्त्रिंशत्तमं, इदानीं चतुस्त्रिंशत्तमं उच्यते, तस्य कोऽभिसम्बन्धः । त्रयस्त्रिंशत्तमे कर्मोक्तं चतुस्त्रिंशत्तमे तत्कारणभूता लेश्या, प्रमादवर्जनं ॥२७८॥

Loading...

Page Navigation
1 ... 280 281 282 283 284 285 286 287 288 289 290