Book Title: Uttaradhyayanasutra Curni
Author(s): Devvachak,
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
श्रीउत्तरा० चूर्णौ
३५
अनगारा० ॥२७९ ॥
अनेन सम्बन्धेनायातस्याध्ययनस्यानुयोगद्वारचतुष्टयं पूर्ववद् व्यावर्ण्य नामनिष्पन्ने निक्षेपे लेसज्झयणं, 'लेसाणं निक्खेवो० ' (५३८-४७नि०६५१ ) इत्यादि गाथा दश, व्यतिरिक्ता द्रव्य लेश्या द्विविधा - कर्मलेश्या अकर्म्मद्रव्यलेश्या, अकर्म द्रव्यलेग्या द्विविधाजीवानामजीवानां च जीवलेश्या भव्याभव्ययोः, सा सप्तविधा, कृष्णादयः, सप्तमा संयोगजा, लेश्याप्रायोग्यद्रव्याणि परिगृह्यन्ते, जोगा बज्झा बज्झतगा य पत्ता उदीरणावलियं । ( ५४८) जीवलेश्या द्विविधा चन्द्रादि ग्रन्थत एव ज्ञायन्ते, कर्मदव्यलेश्या षड्विधा कृष्णादि, अत्रापि जीव संबद्धानि द्रव्याणि परिगृह्यन्ते, भावलेश्या द्विविधा विशुद्धा अविशुद्धाः, उपशमे क्षये च शेषं गतार्थं, उक्तो नामनिष्पन्नो निक्षेपः, इदानीं सूत्रालापकस्यावसरः, अस्माद्यावत् सूत्रं निपतितं तावद्वक्तव्यं, सूत्रं चेदं - 'लेसज्झयणं पवक्खामी ० ' ॥ १२९२-६५२ ॥ इत्यादि, सर्व लेश्यानां दश कारणानि नामादीनि वक्तव्यानि, कृष्णलेश्यावर्ण: जीमूतो मेघ, स च स्निग्धः, गवलं महिषं श्रृंगं, रिष्ठो-द्रोणकाकः, कापोते कोइलछगो तेलंकरका, रसा जह कडुगतुंबगादी, गंधा गोमडाती, स्पर्शा जहा करगयादि, परिणामो उत्तमाधममध्यम स्त्रिविधः, स एव त्रिभिर्गुणितो नवभेदो भवति, नव त्रिभिर्गुणिताः सप्तविंशतिः सप्तविंशति त्रिभिर्गुणिता एकाशीति एकाशीतिस्त्रिभिर्गुणिता द्वे शते चत्वारिंशे भवतः, कृष्णाद्यास्तिस्रो लेश्या दुर्गतिगमनाय भवन्ति, लेश्यापरिणामस्य आदिसमये अन्तसमये वा न कश्चित् म्रियते यदा तु अन्तर्मुहूर्ते गते शेषे वा भवति तदा परभवं गच्छति, अपसत्थाओ परिवज्जेजा, पसत्थाओ अहेदुए मुणिति, बेमि नयाः पूर्ववत् ॥ इति चतुस्त्रिंशत्तमं अध्ययनं समाप्तम्
उक्तं चतुस्त्रिंशत्तमं इदानीं पंचत्रिंशत्तमं, तस्य कोऽभिसम्बन्धः १, चतुस्त्रिंशत्तमे लेश्याऽभिहिता, पंचत्रिंशत्तमे अणगारगुणा अभिधीयन्ते, अनगारच अशस्तलेश्याविरहितो प्रशस्यलेश्यायुक्तो भवति, अनेन सम्बन्धेनायातस्यास्याध्ययनस्य अनु
प्रमदवर्जनं
||२७९॥

Page Navigation
1 ... 281 282 283 284 285 286 287 288 289 290