Book Title: Uttaradhyayanasutra Curni
Author(s): Devvachak,
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
46
चूर्णी
ब्रह्मचर्या
॥२४॥
5 इति शिष्यामन्त्रणं, सत्स्वप्यन्येषु जात्यादिषु आमन्त्रणेपु आयुरेव गरीयः, कुतः१, आयुषि सति सर्वाण्येव जात्यादीनि भवंति
निक्षेपः के एवमाह--सुधर्मास्वामी, जम्बुनामानं शिष्यमाश्रित्य ब्रवीति, यथा मया भगवतः समीपे श्रुतं, अनेन शिष्याचार्यप्रबन्धः प्रद-15 शितो भवति, अथवा श्रुतं मया आयुपि सति भगवता, जीवता भगवता एवमाख्यातमितियावत, अनेन क्षणभङ्गनिरासः कृतो भवति, अथवा श्रुतं मया आवसताऽनु, समीपे निवसता इत्यर्थः, अनेन गुरुकुलवासः ख्यापितो भवति, नित्यं गुरुकुलवासिना भवितव्यमिति, अथवा श्रुतं मया आमृपता, गुरुपादाविति वाक्यशेपः, विनयेन मया लब्धं इतियावत्, अनेन विनयमूलो धम: प्रदर्शितो भवति, 'इह खलु थेरेहिं' इत्यादि, इह अस्मिन् प्रवचने, खलु अवधारणे, इहैव नान्यस्मिन प्रवचने, धर्मे स्थिरीकरणात् स्थविराः तैर्भगवद्भिः स्थविरैः ऐश्वर्यादिसम्पदुपेतैर्दश ब्रह्मचर्यस्थानानि, प्रज्ञप्तानि कथितानीत्यर्थः, यानि भिक्षुः भिक्षुश-15
ब्दश्च पूर्वोक्तः, श्रुत्वा निशम्य, अवधार्येत्यर्थः, 'संजमबहुले' संयमः पृथिवीकायादिकः संवरः-पंच महाव्रतानि समाधिः|| ज्ञानादिकः, बहुलशब्दः पुनः पुनः करोत्यर्थः, एतानि ब्रह्मचर्यावस्थितः सर्वाण्येवाराधयति, तथा च यः गुप्तो मनोवाकायैः, है तथा इन्द्रियैः ब्रह्मचर्ये च गुप्तः सदा अप्रमत्तो विहरेत्, सः अमनि स्थानानि आराधयतीति । इदानीं शिष्यः पृच्छति-कतराणि
तानि दश ब्रह्मचर्यस्थानानि०॥ (सूत्रं३-४२४) ।। आचार्यों निर्वचनं करोति--अमूनि तानि, वक्ष्यमाणानि, तंजहा-'नो इत्थीपसुपंडग' इत्यादि, 'न' इति प्रतिषेधे, स्त्रियः प्रसिद्धाः, पशवः गावीमहिपीअश्वगर्दभादि, पण्डका-नपुंसकाः, संसक्तानि-आकीणोनि
॥२४॥ कातैः, शयनानि स्थानानि च, एतानि न सेवते यः स निर्ग्रन्थो भवति,'तं कथमित्यादि, तत्कथमिति चेत् कथं) एतानि स्थानानि
सेवमानो न निग्रन्थो भवति ?, उच्यते--एतानि स्थानानि सेवमानस्य ब्रह्मचर्य शंका भवति, सेवामिन सेवामीति शङ्कामात्र
REPROCTOR

Page Navigation
1 ... 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290