Book Title: Uttaradhyayanasutra Curni
Author(s): Devvachak,
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
ॐA-%
श्रीउत्तरा० चूर्णी
44.
समुद्रस्य साधुता
समुद्रपा०
॥२६२॥
भूतेहिं इत्यादि गतार्था । 'कालेण' इत्यादि.७७२-६८७) कालेण कारणभूतेन यद् यस्मिन् काले कर्त्तव्यं तत् तस्मिन्नेव समाचरति, स्वाध्यायकाले स्वाध्यायं करोति, एवं प्रतिलेखनाकाले प्रतिलेखयति, वैयावृत्यकाले वैयावृत्यं, उपसर्गकाले उपसर्ग, अपवादकाले अपवादं करोति, राष्ट्रविषये आत्मनश्च बलावलं ज्ञात्वा, सिंह इव साध्वसजादेत(सो) न त्रासंगच्छति, वाङ्मात्रमेव इदं, असत्यमपि न चिंतयति, स तत्र गच्छति, एवं सर्वार्थेषु रागद्वेषात्मकेषु दृढो भवति । 'उवेहमाणो' इत्यादि (७७३-४८७) उपेक्षां कुर्वन् परिबजति, प्रियमप्रियं सर्व समानं सर्वकार्येषु अभिरोचयति, अपवादं न सर्वकालमेव रोचयतीत्यर्थः, न चापि पूजायां सक्तिं करोति, न च परापवादं करोति । 'अणेगछंदा' इत्यादि (७७४) यावत्परिसमासं, छन्दोऽभिप्रायः, अनेकाभिप्राया इह मानवेषु दृश्यन्ते, रागद्वेषात्मको यस्तेष्वनिष्टेषु द्वेष करोति स कर्मबन्धको भवति, के च ते ?, भयानका:- भैरवाः, तत्र तस्मिन् मनुष्यलोके | उपगच्छन्ति दिव्या मानुष्याः तैरचा वा, तथा परीपहा अनेके उदयं गच्छंति यत्र सीदन्ति कातराः, स भिक्षुस्तत्र न सीदति, संग्राममध्ये इव हस्तिराजा, परीपहा विशेष्यन्ते, शीतोष्णदंशमशकादयः, आतंका-रोगाः, ते च नानाप्रकाराः स्पृशंति तान्, अक-* कर:- अनाक्रन्द, अधियासेति, राजसैः पुराकृतानि कर्माणि क्षपयति, प्रहाय रागं च द्वेषं च अज्ञानं च विचक्षणो भिक्षुः, मेरुर्यथा वायुना न चाल्यते, एवं परीसहोपसगैर्यथा न चाल्यते तथा करोति, तथा नात्यर्थमुन्नतेन न चात्यर्थमवनतेन, किं ?-युगान्तर- प्रलोकिना गन्तव्यं, महर्षिणाम महान्तं वा एपते यः स महर्षी, मोक्षार्थीत्यर्थः, न पूजायां सक्तिं करोति, न चापवादं करोति, किन्तु ऋजुभावं प्रतिपद्यते, स एवंविधः निर्वाणमार्गमुपैति । 'संयमे अरइरइसहे.॥७७९-४८७|| संयमे अरतिः असंयमे च या रतिः तां सहति, संस्तवो वचनसंस्तवः संवासश्च तच्च त्यजति, अकर्तव्येषु विरतः, स आत्मसहितं करोति, प्रधानश्च भवति, 4
॥२६॥

Page Navigation
1 ... 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290