SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ 46 चूर्णी ब्रह्मचर्या ॥२४॥ 5 इति शिष्यामन्त्रणं, सत्स्वप्यन्येषु जात्यादिषु आमन्त्रणेपु आयुरेव गरीयः, कुतः१, आयुषि सति सर्वाण्येव जात्यादीनि भवंति निक्षेपः के एवमाह--सुधर्मास्वामी, जम्बुनामानं शिष्यमाश्रित्य ब्रवीति, यथा मया भगवतः समीपे श्रुतं, अनेन शिष्याचार्यप्रबन्धः प्रद-15 शितो भवति, अथवा श्रुतं मया आयुपि सति भगवता, जीवता भगवता एवमाख्यातमितियावत, अनेन क्षणभङ्गनिरासः कृतो भवति, अथवा श्रुतं मया आवसताऽनु, समीपे निवसता इत्यर्थः, अनेन गुरुकुलवासः ख्यापितो भवति, नित्यं गुरुकुलवासिना भवितव्यमिति, अथवा श्रुतं मया आमृपता, गुरुपादाविति वाक्यशेपः, विनयेन मया लब्धं इतियावत्, अनेन विनयमूलो धम: प्रदर्शितो भवति, 'इह खलु थेरेहिं' इत्यादि, इह अस्मिन् प्रवचने, खलु अवधारणे, इहैव नान्यस्मिन प्रवचने, धर्मे स्थिरीकरणात् स्थविराः तैर्भगवद्भिः स्थविरैः ऐश्वर्यादिसम्पदुपेतैर्दश ब्रह्मचर्यस्थानानि, प्रज्ञप्तानि कथितानीत्यर्थः, यानि भिक्षुः भिक्षुश-15 ब्दश्च पूर्वोक्तः, श्रुत्वा निशम्य, अवधार्येत्यर्थः, 'संजमबहुले' संयमः पृथिवीकायादिकः संवरः-पंच महाव्रतानि समाधिः|| ज्ञानादिकः, बहुलशब्दः पुनः पुनः करोत्यर्थः, एतानि ब्रह्मचर्यावस्थितः सर्वाण्येवाराधयति, तथा च यः गुप्तो मनोवाकायैः, है तथा इन्द्रियैः ब्रह्मचर्ये च गुप्तः सदा अप्रमत्तो विहरेत्, सः अमनि स्थानानि आराधयतीति । इदानीं शिष्यः पृच्छति-कतराणि तानि दश ब्रह्मचर्यस्थानानि०॥ (सूत्रं३-४२४) ।। आचार्यों निर्वचनं करोति--अमूनि तानि, वक्ष्यमाणानि, तंजहा-'नो इत्थीपसुपंडग' इत्यादि, 'न' इति प्रतिषेधे, स्त्रियः प्रसिद्धाः, पशवः गावीमहिपीअश्वगर्दभादि, पण्डका-नपुंसकाः, संसक्तानि-आकीणोनि ॥२४॥ कातैः, शयनानि स्थानानि च, एतानि न सेवते यः स निर्ग्रन्थो भवति,'तं कथमित्यादि, तत्कथमिति चेत् कथं) एतानि स्थानानि सेवमानो न निग्रन्थो भवति ?, उच्यते--एतानि स्थानानि सेवमानस्य ब्रह्मचर्य शंका भवति, सेवामिन सेवामीति शङ्कामात्र REPROCTOR
SR No.600170
Book TitleUttaradhyayanasutra Curni
Original Sutra AuthorDevvachak
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year
Total Pages290
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_uttaradhyayan
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy