________________
श्रीउत्तरा० चूर्णौ
१५
भिक्षु
॥२३७॥
इत्यर्थः एवमादिभिर्विद्यादिभिर्यो न जीवति स भिक्षुर्भवति । 'मतं मूलं० ॥५०२४२०॥ इत्यादि, मन्त्रान् साधुकरणान् ज्ञात्वापि
प्रकाशयेत् एवं मूलानि तथा विविधान् वैद्यचिन्तान् वमनविरेचन धूमनेत्रस्नात्रादिकान् न प्रकाशनेत्, तथा आतुरशरणं विचिकित्सार्थं न कुर्यात्, तं जाणणापरिण्णाए परिजाणिऊं अनंतरं पच्चक्खाणपरिन्नाए प्रत्याख्यानं करोति स भिक्षुर्भवति । 'खत्तियगण० ॥ ५०३-४२० ॥ इत्यादि, क्षत्रिया - राजानः, गणा - मल्लगणादयः, 'उग्गा' दण्डपाशिकादयः, राजपुत्रा ब्राह्मणभोगिका, विविधाश्च शिल्पिनः, एतेषां निःशीलानां प्रशंसां पूजनं वा न करोति स भिक्षुर्भवति । 'गिहिणो०' ॥ ५०३ ॥ इत्यादि, गृहस्था ये प्रब्रजितेन दृष्टाः अप्रब्रजितेन वा, तेषां निःशीलानामिहलो कफलार्थं यः संस्तवं न करोति स भिक्षुर्भवति । 'सयणासण० ' ||५०४-४२०॥ इत्यादि, शयनासनपानभोजनानि, परकीयं यदि तं परो न ददाति प्रतिषेधयति वा, प्रतिषेधितो वा निर्वृत्तः सन् यः | प्रद्वेषं न करोति स भिक्षुर्भवति । जं किंचाहार० ॥ ५०५-४२० ॥ इत्यादि, यत्किचिदाहारं परतो लब्ध्वा यस्तेन आचार्योपाध्यायादि त्रिविधेन नानुकम्पति, 'जइ मे अनुग्गहं कुज्जा, साधु होज्जामि तारिओ' यदि मनसा एवं चिंतयति, वाचा सर्वादरेण यथापरिपाट्या निमन्त्रयति, कायेन च परार्थेन ददाति स भिक्षुर्भवति, यः पुनर्मनसा वचसा कायेन च सुसंवृत्तः स भिक्षुर्भवति । 'आयामगं चेव० ॥५०६-४२०॥ इत्यादि, आयामादि प्रसिद्धमेव नीरसं पिंडं पानकं वा लब्ध्वा'णो हीलये' न द्वेषं गच्छेत्, प्रान्तकुलादि च यः परिव्रजति पर्यटति स भिक्षुर्भवति । 'सद्दा विविधा०' || ५०७ ॥ इत्यादि, शब्दा विविधा नानाप्रकारा लोके भवन्ति, दिव्या मानुष्यकाः तैरश्वाश्च भीमा भयानकाः भयमैरवाः सुतरां उच्चासनका ओराला-महंगा उपसर्गादिषु भवंति यस्तान् श्रुत्वा | सतेन न बीभेति स भिक्षुर्भवति । 'वायं विविहं०' ॥५०८-४२० ॥ इत्यादि, वादं विविधं नानाप्रकारं समिच्च सं एत्य-ज्ञात्वा
छ
भिक्षु लक्षणं
॥२३७॥