Book Title: Updeshpad Mahagranth Part 01
Author(s): Pratapvijay
Publisher: Muktikamal Jain Mohan Mala

View full book text
Previous | Next

Page 965
________________ ॐॐकरऊक एसो उ तंतसिद्धो एवं घडएत्ति णियमओ एवं । पडिवजेयत्वं खलु सुहमेणं तकजोगेणं ॥ १००१ ॥ एप तु कालादियोगतश्चित्रो विपाको जीवस्य तन्त्रसिद्धः सिद्धान्तनिरूपितः, यथा 'तित्थयरसिद्धा अतित्थयरसिद्धा' इत्यादि, एवं भव्यत्नविचित्रतायां घटते, इतिर्वाक्यालंकारे, नियमतो नियमेन । एवमुक्तलक्षणं वस्तु प्रतिपत्तव्यं, खलुरखधारणे, सूक्ष्मेण निपुणेन तर्कयोगेन ऋजुसूत्रादिपर्यायनयपालोचेन । ऋजुसूत्रादयो हि पर्यायनयाः कारणभेदपूर्वकमेर कार्यभेदं मन्यन्ते, अन्यथा एकस्मादेव कारणात् सकलत्रैलोक्यकार्योत्पत्तिप्रसंगेन व्यर्थमेव कारणान्तराणां सकलजनप्रसिद्धानां परिकल्पनं स्यादिति ॥ १००१ ॥ एवं चिय विन्नेओ सफलो नाएण पुरिसगारोवि। तेण तहक्खेवाओ स अन्नहाऽकारणो ण भवे ॥१००२॥ | एवमेव तथाभव्यत्वचित्रतायामेव विज्ञेयः सफलो न्यायेन पुरुपकारोऽपि पुरुषव्यापाररूपः । अत्र हेतुः-तेन तथाभव्यत्वेन तथाचित्ररूपतया आक्षेपात् समाकर्पणात् पुरुपकारस्य । स पुरुपकारः अन्यथा भव्यत्वाक्षेपमन्तरेणाकारणो निर्हेतुको न नैव भवेत् , नित्यं सत्त्वादिप्रसंगात् ॥ १००२ ॥ एवं च सति यदन्यदपि सिद्धं तदाह;उवएससफलयावि य एवं इहरा न जुज्जति ततोवि।तह तेण अणक्खित्तो सहाववादो वला एति॥१००३॥ उपदेशमफलतापि च उपदेशस्यापुनर्बन्धकादिधर्माधिकारिसमुचितस्य तत्तच्छास्त्रनिरूपितस्य सफलता तत्तदनाभोगनिवर्तनरूपा, किं पुनः प्रागुक्तपुरुषकाराद्याक्षेप इत्यपिशब्दार्थः, एवं तथाभव्यत्वस्यैवापेक्ष्यत्वे घटते, (नान्यथा)। ॐॐ

Loading...

Page Navigation
1 ... 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008