Book Title: Updeshpad Mahagranth Part 01
Author(s): Pratapvijay
Publisher: Muktikamal Jain Mohan Mala
View full book text
________________
PARIISHORE
तथाभव्यत्वलक्षणम्
श्रीउपदे- जइसवंहा अजोग्गेवि चित्तया हंदि वर्णिणयसरूवा।पावइ य तस्सहावत्तविसेसाणणु अभवस्स॥१००८॥ शपदे
__यदि सर्वथा सर्वैरैव प्रकारैरयोग्येऽप्येकस्वभावतया तच्चित्रपर्यायाणां चित्रता देशकालादिभेदेन निर्वाणगमनस्य, ॥४१६॥ हंदीति पूर्ववत्, वर्णितस्वरूपा । यदि हि भव्यता एकाकारा सती चित्रतया निर्वाणगमनस्य हेतुभावं प्रतिपद्यते तदा
प्राप्नोति च प्राप्नोत्येव तत्स्वभावत्वाविशेषाद्-अचित्रैकजीवस्वरूपस्वभावत्वाविशेषात् , ननु निश्चितमभव्यस्य निर्वाणगमनायोग्यस्य जन्तोः । अयमभिप्रायः-ऋषभादेर्निर्वाणकाले यः स्वभावः स चेन्महावीरस्यापि, तर्हि द्वयोरपि निर्वाणगमनकालैक्यं स्यात् , भव्यत्वभेदस्याभावात् । न चैवमभ्युपगम्यते । तस्मात् तत्कालायोग्यस्यैव ऋषभादेर्निर्वाणमित्यायातं, तथा च सत्यभव्यस्यापि निर्वाणं स्यात् , तत्कालायोग्यत्वस्याविशेषात् ॥१००८॥ है अह कहवि तबिसेसो इच्छिज्जइ णियमओ तदक्खेवा। इच्छियसिद्धी सवे चित्तयाए अणेगातो॥१००९॥ * अथ कथमपि चित्रपर्यायप्राध्यन्यथानुपपत्तिलक्षणेन प्रकारेण तद्विशेष ऋषभादीनां भव्यत्वविशेष इष्यते । तदा निय* मतोऽवश्यंभावेन तदाक्षेपात् प्रतिविशिष्टभव्यत्वेनाक्षेपणादिष्टसिद्धिरभिलषिततीर्थकरादिपर्यायनिष्पत्तिः। तथा, एवं च
भव्यत्वस्य चित्रतायामनेकान्तः । यथा भव्यत्वं तावत् सामान्येनैकरूपमेव, आम्रनिंबकदम्बादीनामिव वृक्षत्वम् । विशेपचिन्तायां तु यथावादीनां रसवीर्यविपाकभेदान्नानारूपता, तथा परस्परमिन्नपर्यायभाक्षु जंतुषु भव्यत्वस्यापीति॥१००९॥ अथ स्याद्वक्तव्यं यद्यपि स्वतो भव्यत्वमेकरूपं, तथापि स्वकार्यनिष्पादनेऽनियतरूपम् , अतः कार्यभेदेऽपि न तद्वैचित्र्यं स्वरूपेणैकत्वादित्याशंक्याह:
SHASHASH0906464SLARISSA
SHOSHILOLOSHI*
॥४१६॥

Page Navigation
1 ... 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008