Book Title: Updeshpad Mahagranth Part 01
Author(s): Pratapvijay
Publisher: Muktikamal Jain Mohan Mala
View full book text
________________
*
तत्त्वोपदेशगर्भितोपसंहारः
SHARE
श्रीउपदे- ' लवणोदधिः । शारीरमानसैर्दुःखैरसंख्येयैर्भवस्तथा ॥१॥ किं च स्वमाप्तधनवद् न तथ्यमिह किञ्चन । असारं राज्यशपदे वाज्यादि तुपखण्डनवत्तथा ॥२॥ तडिदाडम्बराकारं सर्वमत्यन्तमस्थिरम् । मनोविनोदफलदं वालधूलीगृहादिवत् ॥३॥
४ यश्च कश्चन कस्यापि जायते सुखविभ्रमः। मधुदिग्धासिधाराग्रग्रासवन्नेप सुन्दरः॥४॥" ॥ १०३५॥ मान्या लोकलो॥४३३॥
कोत्तरभावानुगता महान्तो जना मानयितव्या मनोवाक्कायक्रियाभिः 'मान पूजायाम्' इति वचनात् पूजनीयाः । तत्र
लौकिकभावानुगता मातृपितृस्वामिप्रभृतयः, लोकोत्तरास्तु धर्माचार्यादय इति । परिभवितव्या न्यक्कारमानेतव्या न ४ केचिजघन्यमध्यमोत्तमभेदभाजो जन्तवो जीवलोके । लोक इति विशिष्टलोकाचारः, अनुवर्तितव्योऽनुशीलनीयः। अत
एव पठ्यते-"लोकः खल्वाधारः सर्वेषां धर्मचारिणां यस्मात् । तस्माल्लोकविरुद्धं धर्मविरुद्धं च संत्याज्यम् ॥१॥” न नैव निन्दितव्याश्चावर्णवादोद्घट्टनेनावज्ञातव्याः पुनः केचित् । इतिः प्राग्वत् ॥ १०३६ ॥ गुणराग औदार्यदाक्षिण्यादि गुणवहुमानः कर्त्तव्यः कुतोऽपि वैगुण्यात् स्वयंगुणानुष्ठानासामर्थेऽपि निविडगुणानुरागवशाद् भावातिशयतस्तदनुछानफलवन्तो भवन्ति जन्तवः। तथा चोक्तम्-"अप्पहियमायरंतो” इत्यादि । नो कर्त्तव्या न विधेया कुशीलसंसर्गिः -असदाचारजनालापसंवासादिलक्षणा । यतः पठ्यते-“अम्बस्स य निम्बस्स य" इत्यादि । वर्जयितव्याः क्रोधादयः कपायाः क्षान्तिमार्दवार्जवसन्तोपावलम्बनेन । तथा, सततं निरन्तरं प्रमादश्चाज्ञानसंशयमिथ्याज्ञानादिरष्टप्रकारो वर्जयितव्यः, तस्यैव सर्वानर्थमूलत्वात् । यथोक्तम्-“यन्न प्रयान्ति पुरुषाः स्वर्गे यच्च प्रयान्ति विनिपातम् । तत्र निमित्तमनार्यः प्रमाद इति निश्चितमिदं में"॥१०३७ ॥ अथोपसंहरन्नाहा
कषायाः क्षान्तिमार्दवार्जवसातादलक्षणा । यतः पठ्यते-भारतो" इत्यादि । नो कर्तव्या
॥४३३॥
*

Page Navigation
1 ... 1002 1003 1004 1005 1006 1007 1008