Book Title: Updeshpad Mahagranth Part 01
Author(s): Pratapvijay
Publisher: Muktikamal Jain Mohan Mala

View full book text
Previous | Next

Page 974
________________ ॥४१९॥ श्रीउपदे- चिच्चित्रीयितनिखिलभुवनजनो जनितजनताप्रमोदगुणग्रामो ग्रामाकरनगरपुरपूरपृथु पृथ्वी पर्यटन् कश्चित् तीर्थकृत् सम- शुद्धयोशपदे वसृतः । तत्र च समवसरणे चलामलचामरविसरवीजिततनौ शरच्छशांकमण्डलोज्ज्वलपुण्डरीकत्रितयतलभागवर्त्तिनि गे दुर्गता भगवति धर्मदेशनां विदधति, नानाविधयानवाहनसमारूढप्रौढप्रतिपत्तिपरिगते गन्धसिन्धुरोधुरस्कन्धमधिष्ठिते छत्रच्छ- नारीननभस्तले मागधोपगीतगुणगणे भेरीभांकारभरिताम्बरतले नरपतौ, तथा द्विजवरक्षत्रियवैश्यादिके पुरजने गन्धधूपपुष्पपटलप्रभृति पूजापदार्थव्यग्रकरकिंकरीनिकरपरिगते विविधवसनाभरणरमणीयतरशरीरे नगरनारीनिकरे च तद् वन्दनाथ प्रचलिते सति, एकया वृद्धदरिद्रयोषिता जलेन्धनाद्यर्थ वहिनिर्गतया कश्चिन्नरः पृष्टः, यथा-कायं लोक एकमुखस्त्वरितपदप्रचारः प्रचलितो विलोक्यते? । तेनोक्तं-जगदेकवान्धवस्य जन्मजरामरणरोगशोकदौर्गत्यादिदुःखच्छिदुरस्य श्रीमतो भगवतस्तीर्थकरस्य वंदनपूजनाद्यर्थम् । ततस्तच्छ्रवणात् तस्या भगवति भक्तिरभवत् । अचिन्तयच्चाहमपि भगवतः पूजाद्यर्थं यत्नं करोमि । ततः सा पूजार्थिनी सती एवं विचिन्तयति-अहो! अहमतिदुर्गता पुण्यरहिता विहितपूजांगवर्जिता। इतिः प्राग्वत् । अतोऽरण्यदृष्टानि मुधालभ्यानि तथाप्रकाराणि यानि सिन्दुवारकुसुमानि तेषां स्वयमेव ग्रहणं कृत्वा भक्तिभरनिर्भरांगी, अतो 'धन्या पुण्या कृतार्था कृतलक्षणाहं सुलब्धं मम जन्म जीवितफलं चाह६ मवाप्ता' इति भावनया पुलककंटकितकाया प्रमोदजलप्लवप्लावितकपोला भगवन्तं प्रति गमनमाचरन्ती समवसरणकान नयोरन्तर एव वृद्धतया क्षीणायुष्कतया च झटिति मरणमुपगता । ततोऽसावविहितपूजापि पूजाप्रणिधानोल्लसितमान-8॥४१९॥ सतया देवत्वमवाप्तवती ॥ १०२०॥ ततस्तस्याः कडेवरमवनिपीठलुठितमवलोक्यानुकम्पापरीतान्तःकरणो जन उदके ERRORRESSOR

Loading...

Page Navigation
1 ... 972 973 974 975 976 977 978 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008