Book Title: Updeshpad Mahagranth Part 01
Author(s): Pratapvijay
Publisher: Muktikamal Jain Mohan Mala

View full book text
Previous | Next

Page 972
________________ श्रीउपदेशपदे शुद्धयो गे दुर्गता नारी ॥४१८॥ क्सुतः सम्पन्नः, देव्याश्च लंखगृहे जन्म पुत्रीभावेन । कलाग्रहणमुभाभ्यामपि कृतम् ॥ १०१६॥ द्वयोरपि प्राप्ततारुण्ययोरन्यत्र रूयन्तरे पुरुषान्तरे चारागो रागाभावः सम्पन्नः । कालेन च गच्छता कदाचिद् द्वयोरपि परस्परं दर्शनमभूत् । ततश्चक्षूरागे दृष्टिरागलक्षणे कथंचिदनिवर्तमाने द्वयोरपि परिणयनमजायत । ततश्च गर्दा परस्परायोग्यसम्बन्धापवादरूपा सर्वत्र प्रवृत्ता । तां चावधायैव हिण्डन देशान्तरपर्यटनलक्षणमारब्धं ताभ्याम् । प्रस्तावे च यतिदर्शनाच्छुद्धसमाचारसाधुसमवलोकनात् स्मरणेन प्रागनुभूताया जाते बोधिश्च धर्मप्राप्तिलक्षणः समजनि तयोरिति ॥१०१७॥ इय थोवोवइयारो एसो एयाण परिणओ एवं । सुद्धे पुण जोग्गम्मि दुग्गयनारि उदाहरणं ॥१०१८॥ _इत्येवं स्तोकोऽप्यतीचारो रागद्वेषलक्षण एष यः प्रागुक्तः एतयोः परिणत एवमनुचिताचारहेतुतया । तस्मात् सर्वथा शुद्धाचारपरेण मतिमता भाव्यमिति । अत्र शुद्धे पुनर्योगे समाचारे दुर्गतनारी वक्ष्यमाणलक्षणा उदाहरणं वर्तत इति । ॥१०१८ ॥ एतदेव संक्षेपतस्तावदाहासुवति दुग्गयनारी जगगुरुणो सिंदुवारकुसुमेहिं । पूजापणिहाणेणं उववन्ना तियसलोगम्मि ॥१०१९॥ श्रूयते जिनागमे दुर्गतनारी दरिद्रा जरती स्त्री जगद्गुरोः सिन्दुवारकुसुमैर्निगुण्डीपुष्पैः कृत्वा यत् पूजाप्रणिधानमभ्यर्चनाभिलाषस्तेनोपपन्ना त्रिदशलोके ॥१०१९॥ एतामेव गाथां गाथैकादशकेन व्याचष्टे:कायंदी ओसरणे भत्ती पूजत्थि दुग्गयत्ति ततो । तह सिंदुवारगहणं गमणंतरमरण देवत्तं ॥१०२०॥ SURESSSSSSSSSSC ॥४१८॥

Loading...

Page Navigation
1 ... 970 971 972 973 974 975 976 977 978 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008