________________
ॐॐकरऊक
एसो उ तंतसिद्धो एवं घडएत्ति णियमओ एवं । पडिवजेयत्वं खलु सुहमेणं तकजोगेणं ॥ १००१ ॥
एप तु कालादियोगतश्चित्रो विपाको जीवस्य तन्त्रसिद्धः सिद्धान्तनिरूपितः, यथा 'तित्थयरसिद्धा अतित्थयरसिद्धा' इत्यादि, एवं भव्यत्नविचित्रतायां घटते, इतिर्वाक्यालंकारे, नियमतो नियमेन । एवमुक्तलक्षणं वस्तु प्रतिपत्तव्यं, खलुरखधारणे, सूक्ष्मेण निपुणेन तर्कयोगेन ऋजुसूत्रादिपर्यायनयपालोचेन । ऋजुसूत्रादयो हि पर्यायनयाः कारणभेदपूर्वकमेर कार्यभेदं मन्यन्ते, अन्यथा एकस्मादेव कारणात् सकलत्रैलोक्यकार्योत्पत्तिप्रसंगेन व्यर्थमेव कारणान्तराणां सकलजनप्रसिद्धानां परिकल्पनं स्यादिति ॥ १००१ ॥ एवं चिय विन्नेओ सफलो नाएण पुरिसगारोवि। तेण तहक्खेवाओ स अन्नहाऽकारणो ण भवे ॥१००२॥ | एवमेव तथाभव्यत्वचित्रतायामेव विज्ञेयः सफलो न्यायेन पुरुपकारोऽपि पुरुषव्यापाररूपः । अत्र हेतुः-तेन तथाभव्यत्वेन तथाचित्ररूपतया आक्षेपात् समाकर्पणात् पुरुपकारस्य । स पुरुपकारः अन्यथा भव्यत्वाक्षेपमन्तरेणाकारणो निर्हेतुको न नैव भवेत् , नित्यं सत्त्वादिप्रसंगात् ॥ १००२ ॥ एवं च सति यदन्यदपि सिद्धं तदाह;उवएससफलयावि य एवं इहरा न जुज्जति ततोवि।तह तेण अणक्खित्तो सहाववादो वला एति॥१००३॥
उपदेशमफलतापि च उपदेशस्यापुनर्बन्धकादिधर्माधिकारिसमुचितस्य तत्तच्छास्त्रनिरूपितस्य सफलता तत्तदनाभोगनिवर्तनरूपा, किं पुनः प्रागुक्तपुरुषकाराद्याक्षेप इत्यपिशब्दार्थः, एवं तथाभव्यत्वस्यैवापेक्ष्यत्वे घटते, (नान्यथा)।
ॐॐ