Book Title: Updesh Shataka
Author(s): Vimalsuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 4
________________ उपदेश शतकम् ॥२॥ श्रुत्वा सारं प्रवचनवचो ज्ञायते कार्यजातं, दौर्जन्यं स्वं त्वपरखलता सज्जनत्वं सुधीत्वम् । लोकाकारो दिवनरकयोराकृतिश्चित्तवृत्तिः, शुद्धा श्रद्धा गुरुविनयिता देवपूजाप्रभावः॥ १३ ॥ अनित्यं संसारे भवति सकलं यन्नयनगं, वपुर्वित्तं रूपं मणिकनकगोऽश्वद्विपजनम् । पुरं रामा भ्राता जनकजननीनन्दनकुलं, बलं देहोद्भूतं वचनपटुता भाग्यभवनम् ॥ १४ ॥ गगनधनुषा मेयं देहं पयोधितरङ्गवद् , बहु धनमिदं त्वायुर्वायुर्यथा जगतीतले । सुतनुयुवतिस्नेहो लेहो विषाक्तकृपाणजोऽविचलसुखदो धर्मः कर्मक्षयः क्रियतामतः॥१५॥ [स्थिरम् ? ॥१६॥ भवति कोऽद्य न चक्रधरो हरिर्जिनवरः पृथिवीतलभूषणम् । रविविधू चपलौ खलु दृग्गतौ, तव भवेऽत्र भवेज्जड!किं दृश्यन्ते दिवसोदये जगति ये भावास्तु सायं न ते, भुक्तं भोजनमेव षड्रसयुतं तत्कालनाशं गतम् ।। बालत्वं बत यौवनं च गदतः क्षीणाङ्गता वृद्धताऽङ्गेवस्थां हि विलोक्य सारसमताधर्मे प्रयत्नं कुरु ॥ १७ ॥ इति अनित्यभावना संपूर्णा ॥ १॥ JainEducation Inter For Private & Personal use only X w.jainelibrary.org

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28