Book Title: Updesh Shataka
Author(s): Vimalsuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 5
________________ ॥ द्वितीया अशरणभावना॥ माता पिता च भगिनी सहजो वधूर्वा, पुत्राः सुताः करिघटा रथपतिरश्वाः । भत्या घनाः परिकरः परतः परीतस्तेभ्यो न ते किमपि भोः शरणं सहायः ॥ १८ ॥ अनाथो निर्ग्रन्थो नयनभवरोगेण निहतस्तदा कश्चिन्न स्याच्छरणसुखदस्तस्य भुवने। प्रसूर्बीजी रामा सकलसुजनो दीनवदनस्ततो धर्मः सारो जगति भविनामेकशरणम् ॥ १९ ॥ त्राणं किन्तु परत्र जन्मनि भवेदेहं गृहं गेहिनी, देशा दन्तिचया रथास्तु तुरगा गावो महिष्यो मयाः । भण्डारः कनकं मणिर्मरकतं रत्नाञ्चितालङ्कृतिः,सर्व स्थास्यति यत्र तत्र शरणं धर्म विना ना(न्व)स्ति किम्? २०॥ दग्धा हारवती यदा प्रकुपितद्वैपायनेनर्षिणा, गोविन्दो बलवांस्तदैव कृतवान् रक्षां न कस्यापि च । निर्नाथा मनुजा धनञ्जयवशाः पञ्चत्वमाप्ता घनाः, श्रीमन्नेमिजिनस्तदैकशरणं जातस्तु भव्याङिनाम् ॥ २२॥ इति अशरणभावना संपूर्णा ॥२॥ Jain Education Inter For Privale & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28