Book Title: Updesh Shataka
Author(s): Vimalsuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 15
________________ Jain Education Internation [१५] ॥ द्वादशी धर्मभावना ॥ देवोऽष्टादशदोषवर्जितवपुः सिद्धस्वरूपाकृतिः, साधुः संयमसाधकः श्रुतमतिः स्वाचारयत्नक्षमः । धर्मो जीवदयास्वरूपमतिभृत् स्याद्वादमुद्रान्वितः प्राप्यैतत्रितयं हि दुर्लभतरं कः स्यात्प्रमादी पुनः १ ॥ ५८ ॥ मुनिपतिमुखशैलादुद्गतो धर्मसूर्यो, नयवचनकरैर्यो गाढमिध्यातमिस्रम् । विषयमतिजडत्वं नाशयन् भव्यजन्तु - प्रकरकमलखण्डं शोभयंस्तं भजध्वम् ॥ ५९ ॥ धर्मः प्रभू सर्वत्रतात्मकः कर्मनिघातकच । श्राद्धस्य साधोर्हृदि भावनीयः, प्राणिस्त्वया दुर्लभ एव योगः ॥ ६० ॥ धर्मं चेतसि रक्ष रक्षितजगद्रे मूढ ! किं प्रोच्यते, कालोऽनादिरभूत्तवैव न कदा कुत्रापि लब्धा त्वया । सामग्री गुरुदेवधर्ममतिकृत्संसारसंहारिणी, तद्भाव्या हि पुनः पुनस्तु विजने गत्वातिसद्भावनाः ॥ ६१ ॥ इति धर्मभावना संपूर्णा ॥ १२ ॥ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28