Book Title: Updesh Shataka
Author(s): Vimalsuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund
Catalog link: https://jainqq.org/explore/600074/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Jain Education Intern ॥ श्रविचन्द्रलालभाई जैनपुस्तकोद्वारप्रन्याङ्के ॥ ॥ श्रीसरस्वत्यै नमः श्रीगुरुभ्यो नमः ॥ ॥ श्रीविबुधविमलकृतम् — उपदेशशतकम् ॥ ॥ प्रथमा अनित्यभावना ॥ श्रीपञ्चासरपार्श्वनाथवदनं दन्तांशुदूरीकृतध्वस्तज्ञानविलोचनश्रुतमहोमोहान्धकारव्रजम् । अभ्यस्तागमभव्यजन्तुहृदयाम्भोजप्रमोदप्रद, चन्द्रः पापकलङ्कपङ्करहितस्त्रायाद्भयान्नः पुनः ॥ १ ॥ विद्वांसो न परोपदेशकुशलास्ते युक्तिभाषाविदो, नो कुर्व्वन्ति हितं निजस्य किमपि प्रात्तापराभ्यर्थनाः । तस्मात्केवलमात्मनः किल कृतेऽनुष्ठानमादीयते, मर्त्यैयैः सुकृतैकलाभनिपुणैस्तेभ्यो नमः सर्वदा ॥ २ ॥ Page #2 -------------------------------------------------------------------------- ________________ 17 उपदेश शतकम् हितं न कुर्यान्निजकस्य यो हि, परोपदेशं स ददाति मूर्खः । ज्वलन्न मूलं स्वकपादयोश्च, दृश्येत मूढेन परस्य गेहम् ॥ ३ ॥ न कश्चित्संसारे भवति सुसहायश्च शरणं, विना धर्म शुद्धं जिनवरमुखोक्तं नयभृतम् । Falततस्त्यक्त्वा मिथ्यात्वमिह कुरु यत्नं शुभमते, रहस्यं सिद्धान्तोदितमिदमतः किञ्चन परम् ॥ ४ ॥ आशा परेषां विषवल्लितुल्येत्येवं प्रबुद्धाः प्रवदन्ति तन्न । तस्यां विलग्नास्तु भवेऽत्र दुःखमाशास्थिता यान्ति परत्र चात्र ॥ ५ ॥ कचवरसमः संसारोऽयं जनुमरणादिकाऽ-शुचिचितमृतश्वाहिव्यालाश्वकुत्सितदेहभृत् । किमत रमते तस्मिन्हंसः सुमानसमन्दिरो, भवकृमिगणे मुक्ताभ्रान धर्मः स्वर्गपुरीगतौ सुतुरगो धर्मः सभामण्डनं, धर्मः शत्रुसमागमे स्वसहजः कर्मारिदुर्गो गजः । धर्मो दुर्जनदन्दशूकदमने स्यादैनतेयस्तथा, धर्मः केवलमुक्तिसौख्यकरणे सद्रत्नलाभः पुनः ॥ ७ ॥ For Privale & Personal use only Page #3 -------------------------------------------------------------------------- ________________ वयश्चत्वारिंशच्छरदनुमितं चेतन गतं, न ते किं मूर्खत्वं विकलमतिबालोचितमिदम् । Kalकथं भो ! विश्वासो हृदयपवने चञ्चलगतावतो धर्मे यत्नं कुरु यदि शिवोत्कण्ठितमतिः ॥ ८॥ भव्याश्चद्भवतां मनो भवभयोद्विग्नं निमग्नं शिवेऽप्यहङ्गाषितभारतीश्रतिसुधापानं विधत्ताधिकम् । धर्म द्वादशभावनायतिदशक्षान्त्यादिधर्मान्वितं, तीर्णागाधभवोदधिं च कुरुत त्यक्त्वा परां कल्पनाम् ॥ ९॥ सिद्धान्तश्रवणं हृषीकभुजगस्याशीविषध्वंसनं, प्रज्ञाकल्पलताङ्कुरोद्भववनं मोहाब्धिसंशोषणम् । मायावल्लिविनाशनं त्वघतरोर्मूलाग्निसंस्थापनं, सन्तापप्रतिघातनं शुभमनःसंवृद्धिसंभावनम् ॥ १० ॥ परिहर मनो गच्छन्मत्स्योपमं विषकण्टकोपमितविषयेष्वात्मन्पाप्मन् कथं कथयामि भोः ॥ किमपि वचसा सिद्धान्तं तं विलोकय तत्त्वतो, भवति हि कदाचित्ते चित्ते गुणः श्रुतसंश्रुतेः ॥ ११ ॥ विधेहि दृष्टिं समये समाधि, कलेवरे दोषहरे वपारे । बोध विना को न(नु)लभेत मुक्तिं, ज्ञास्तं प्रधानं प्रवदन्ति हेतुम् ॥१२॥ an d an inte For Private & Personal use only A nelibrary.org Page #4 -------------------------------------------------------------------------- ________________ उपदेश शतकम् ॥२॥ श्रुत्वा सारं प्रवचनवचो ज्ञायते कार्यजातं, दौर्जन्यं स्वं त्वपरखलता सज्जनत्वं सुधीत्वम् । लोकाकारो दिवनरकयोराकृतिश्चित्तवृत्तिः, शुद्धा श्रद्धा गुरुविनयिता देवपूजाप्रभावः॥ १३ ॥ अनित्यं संसारे भवति सकलं यन्नयनगं, वपुर्वित्तं रूपं मणिकनकगोऽश्वद्विपजनम् । पुरं रामा भ्राता जनकजननीनन्दनकुलं, बलं देहोद्भूतं वचनपटुता भाग्यभवनम् ॥ १४ ॥ गगनधनुषा मेयं देहं पयोधितरङ्गवद् , बहु धनमिदं त्वायुर्वायुर्यथा जगतीतले । सुतनुयुवतिस्नेहो लेहो विषाक्तकृपाणजोऽविचलसुखदो धर्मः कर्मक्षयः क्रियतामतः॥१५॥ [स्थिरम् ? ॥१६॥ भवति कोऽद्य न चक्रधरो हरिर्जिनवरः पृथिवीतलभूषणम् । रविविधू चपलौ खलु दृग्गतौ, तव भवेऽत्र भवेज्जड!किं दृश्यन्ते दिवसोदये जगति ये भावास्तु सायं न ते, भुक्तं भोजनमेव षड्रसयुतं तत्कालनाशं गतम् ।। बालत्वं बत यौवनं च गदतः क्षीणाङ्गता वृद्धताऽङ्गेवस्थां हि विलोक्य सारसमताधर्मे प्रयत्नं कुरु ॥ १७ ॥ इति अनित्यभावना संपूर्णा ॥ १॥ JainEducation Inter For Private & Personal use only X w.jainelibrary.org Page #5 -------------------------------------------------------------------------- ________________ ॥ द्वितीया अशरणभावना॥ माता पिता च भगिनी सहजो वधूर्वा, पुत्राः सुताः करिघटा रथपतिरश्वाः । भत्या घनाः परिकरः परतः परीतस्तेभ्यो न ते किमपि भोः शरणं सहायः ॥ १८ ॥ अनाथो निर्ग्रन्थो नयनभवरोगेण निहतस्तदा कश्चिन्न स्याच्छरणसुखदस्तस्य भुवने। प्रसूर्बीजी रामा सकलसुजनो दीनवदनस्ततो धर्मः सारो जगति भविनामेकशरणम् ॥ १९ ॥ त्राणं किन्तु परत्र जन्मनि भवेदेहं गृहं गेहिनी, देशा दन्तिचया रथास्तु तुरगा गावो महिष्यो मयाः । भण्डारः कनकं मणिर्मरकतं रत्नाञ्चितालङ्कृतिः,सर्व स्थास्यति यत्र तत्र शरणं धर्म विना ना(न्व)स्ति किम्? २०॥ दग्धा हारवती यदा प्रकुपितद्वैपायनेनर्षिणा, गोविन्दो बलवांस्तदैव कृतवान् रक्षां न कस्यापि च । निर्नाथा मनुजा धनञ्जयवशाः पञ्चत्वमाप्ता घनाः, श्रीमन्नेमिजिनस्तदैकशरणं जातस्तु भव्याङिनाम् ॥ २२॥ इति अशरणभावना संपूर्णा ॥२॥ Jain Education Inter For Privale & Personal use only Page #6 -------------------------------------------------------------------------- ________________ उपदेश शतकम् ॥ तृतीया संसारभावना ॥ संसारस्य सुखं त्वयापि बहुशो भुक्तं भवे भ्राम्यता, योनिः काचन नास्ति यत्र न मृतो जातो न वा त्वं कदा । प्रीतिं किं विदधासि तत्र जडधी रोगाधिशोकाकुले, बुद्धि जैनमते निधेहि नितरां संसारमोहं त्यजन् ॥ २२ ॥ कदाचिद्देवोऽभूः क्वचिदपि नरः प्राणविकलो, गतिस्तिर्यग्योनौ जनकजननीभेदरहितः।। महत्कष्टं सोढं नरकभवजं वर्षशतकैरहो ! अद्यापि त्वं भवविरतिमस्मिन्न लभसे ॥ २३ ॥ Mail कचिदपि हयः सिंहः सो गजो ऋ(ख)षभःखरः, क्वचिदजगरोऽभूस्त्वं चाखुः कदापि मृगः शुनः । भुवि पयसि वा वह्नौ वायौ वनस्पतिके स्थितो, जड! किमधुना संसारेऽस्मिन् रतिस्तव तादृशी ? ॥ २४ ॥ धनेशो वराको नृपो दासवृत्तिरपुत्रः सपुत्रः कदा कामरूपः । कुरूपः सयोगी वियोगी नरोऽभूर्यथा चाधुना मृढ धर्म भज त्वम् ॥ २५ ॥ इति संसारभावना संपूर्णा ॥ ३ ॥ For Privale & Personal use only Page #7 -------------------------------------------------------------------------- ________________ ॥ चतुर्थी एकत्वभावना ॥ उत्पन्न परलोकतोऽत्र भवता गन्तव्यमेकाकिना, संबन्धः किल कृत्रिमो हि युवतेतुश्च पित्रोः पुनः । | पुत्राणां दुहितुः पतेः श्वशुरयोः श्यालस्य मातृष्वसुस्तस्मात्स्थास्यति सर्वमत्र सहगो धर्मो भवेदेककः ॥२६॥ एकस्त्वं गुणभृत्सदैव भुवने कस्यापि कश्चिन्न ते, सर्वः स्वार्थपरः पिता च जननी सूनुर्वधूर्बान्धवः । दायादः खजन: सुहृच्च भगिनी स्वामी तथा सेवको, हित्वा तत्प्रतिबन्धनं जिनपतेर्धर्म भज त्वं मुदा ॥२७॥ वसति युवतिर्वेश्मान्तर्वा धनं धरणीतले, पवनजविनो वाजिव्यूहा धनोपमिता गजाः। प्रबलसुभटाः स्वस्वस्थाने रथाः पतिताः पुनः, परभवगतावेको जीवश्चलेद्गतसम्बलः ॥ २८ ॥ एको धनेशो वरभोगभोजी, छेको वराको दररोगयोजी। एकः सुरूपस्तु कुरूप एको, धर्म कुरु त्वं तत एक एव ॥ २९ ॥ इति एकत्वभावना संपूर्णा ॥ ४ ॥ Jain Education inten For Privale & Personal use only Page #8 -------------------------------------------------------------------------- ________________ शतकम् उपदेश [] ॥पञ्चमी अन्यत्वभावना ॥ अन्यच्छरीरं धनधान्यमन्यदन्यैव रामा गृहभारशक्ता । अन्ये त्वदीयाः सुतबान्धवाद्याः, सर्व पृथक्त्वं(क्वं) नखवच्च हस्तात् ॥ ३०॥ पाषाणात्सलिलं मणिर्विषधरात्तोयाच्च तैलं यथा, शर्वर्या दिवसं तमो दिनमणेश्छायातपादिग्गता । श्वेतात् कृष्णतरः कटोश्च मधुरो दुःखात्सुखं चापरं, तद्वत्सर्वमिदं हि वस्तु भवतो विद्धि त्वमन्यत्तथा ॥ ३१॥ वहति वृषभः सारं भारं गृहे घृतभुक् सदा, यदि स च जराजीर्णोऽभून्नो लभेत तृणं तदा । अयमिव भवे लोकः शोकाकुलः किल सर्वदा, किमु जडमतेऽन्यार्थ स्वाथै त्यजेर्भवमर्मदा (:) ॥ ३२॥ जनन्या ययाधारि कुक्षौ सुतो यः, पयोऽपायि विष्मूत्रशुद्धिस्त्वकारि । युवाऽभूद्यदा तेन जाया न्यषेवि, ततोऽन्यन्मयाऽज्ञायि धर्मः सहायः ॥ ३३ ॥ इति अन्यत्वभावना संपूर्णा ॥ ५॥ ॥४ ॥ Jan Eden For Privale & Personal use only Page #9 -------------------------------------------------------------------------- ________________ ॥ षष्ठी अशुचिभावना ॥ सपलरक्तसिराजिनकीकशे, शमलमूत्रमलाविलपुद्गले । अरुचिरे नचिरे हि कलेवरे, मुयुवतेर्भवतेरितमक्षि किम् ? ॥ ३४ ॥ नयनयोः कुचयोर्भुजयोर्भुवोः, श्रवणयोः करयोः कचबन्धने । किमपि चारु न चर्मनिगुम्फितं, पिशितपूरितनिन्दितभाजनम् ॥ ३५ ॥ प्रथममेव विलोकय चिदृशा, निजतनौ विवराणि वहन्त्यरम् । नव जुगुप्सितगन्धरसानि तन्ममतया विदधासि हितं न किम् ? ॥ ३६ ॥ अनुदिनं द्वययुग्दशरन्ध्रभृयुवतिविग्रहकर्करमन्दिरम् । नगरसारणिवत्स्रवतीदृशं,त्यज मनो भज पारगतं वचः३७॥ __इति अशुचिभावना संपूर्णा ॥ ६ ॥ Jain Education.in For Privale & Personal use only w.jainelibrary.org Page #10 -------------------------------------------------------------------------- ________________ उपदेश शतकम् ॥ सप्तमी आश्रवभावना ॥ कासारो वारिमार्गः प्रचुरजलभरः स्याद्यथा मर्त्यलोके, जीवेऽस्मिन्नाश्रवौधैरशुभशुभकरैः कर्मराशिस्तथैव । . दुःखी चादुःख एको जगति रचनया कर्मणोऽयं विचित्रस्तस्माद्वध्नीहि पाली विषयरुचिमनोवाग्वपुर्योगरोधैः॥३८॥ अनन्ता आत्मानो नरकभवने ह्याश्रववशाद्ययुर्वा यास्यन्ति प्रबलविषया यन्ति बहवः । अतस्तं मिथ्यात्वाविरतिकरणक्रोधशयनप्रमादं दुर्मोचं भवभयपुरं मुञ्च मनसा ॥ ३९ ॥ क्रियाः कुगतिकारणं जगति विंशतिः पञ्चयुक, प्रवृत्तिरपि दु:खदा व्रतवतां वचश्चेतसाम् । हृषीकदमनं वरं कुरु शिवे यदीच्छास्ति ते, पिधानमिदमाश्रवः श्रमणधर्मरोधाध्वनः ॥ ४०॥ क्रोधो बोधविरोधकः सुविनयामानश्च मानो भवेत, मायापायविधायिनी भवबने लोभो वृषक्षोभकः । वर्गद्वारकपाटकस्त्वविरतियोगा हि रोगाश्रयास्तत्सङ्गं परिहीयतां जिनपतेः श्रुत्वाऽऽगमं सादरम् ॥४१॥ इति आश्रवभावना संपूर्णा ॥ ७ ॥ ॥ ५ ॥ Jain Education in For Privale & Personal use only H T ww.jainelibrary.org Page #11 -------------------------------------------------------------------------- ________________ ॥ अष्टमी संवरभावना ॥ घनमुनिवराः श्राद्धाः सिद्धा मनस्तनुसंवरात् , प्रभवति महालब्धिव्यूहो गदार्तिविनाशकः । त्रिदशपतयो देव्यो नार्यो नमन्ति नरेश्वरा, असुरविभवः श्रीमद्वीरं समाधिसमन्वितम् ॥ ४२ ॥ समवसरणे रत्नैः स्वर्णैः कृते रजतैर्मणी-कनकरचिते स्थित्वा सिंहासने परमेष्ठिनः। नृपशुसुरवाक्संवादिन्या गिरोपदिशन्ति ते, पिहितसकलाक्षव्यापाराच्छिवं व्रतसंवरात् ॥ ४३ ॥ धरत समितिं गुप्ति मेयां त्रिभिः किल पञ्चभिस्त्यजत हि मनोभृङ्गं सङ्गीभवन्तमहेनिशम् । विरसविषये पुष्पौपम्ये परीषहवाहिनी, जयत जगदीशोक्ते मुक्तर्निबन्धनमीरितम् ॥ ४४ ॥ करणसदनद्वारावारं विभाननिवासद, भजत भविनोऽवश्यं वश्यं भवेच्च शिवाश्रियः । चरमभगवद्भक्ता सिहायिका वरदायिनी, सृजति सुखकृहिन्नाभावं सुसंवरिणामिह ॥ ४५ ॥ इति श्रीवीरजिनस्तुतिगर्भितसंवरभावना संपूर्णा ॥ ८॥ Sain Education Inter For Privale & Personal use only Page #12 -------------------------------------------------------------------------- ________________ [१२] शतकम् उपदेश ॥ नवमी निर्जराभावना ॥ यत्कर्माहिविषामृतं जिनवरा यच्च श्रयन्ति ध्रुवं, येनानेकजनाः शिवं हि गमिता यस्मै नमस्यन्ति वा। यस्मात्पारगचक्रिलब्ध्यनुभवो यस्य प्रभावाच्छुभं, यस्मिन्सन्ति गुणा घनाः कुरु तपस्तन्मुक्तिकामो मुने! ॥४६॥ विघ्नौघस्तपसः प्रणश्यति यथा ध्वान्तं रवेरम्बुदो, वायोः सिंहाशशोर्गजश्च शिखिनः सर्पो निदाघाजडः। बाह्याभ्यन्तररूपषड्डिधामिदं सन्निर्जराकारणं, मा कार्षीस्त्वमनुद्यमं तपसि चेत्सिद्ध्यङ्गनाकामुकः ॥ १७ ॥ खनति भवसमुत्थं कर्मकन्दं समूलं, जनननिधनपीडाध्वंसनार्थ त्रिशूलम् । अनुपमनिजशक्तिप्राप्तिकालानुकूलं, जगति जिनवरोक्ता निर्जरा क्षेमकूलम् ॥ ४८ ॥ तस्मान्नास्ति तमो भवेद्भवतु वा लब्धिर्बभूवाभवद्भूयाहा भविता जिनो वसुसुखं स्वार्थो भविष्यत्यपि । छद्मानेहसि यत्त्वभूद्यतिपतेर्वीरस्य घोरं तपो, नाधास्यद्यदि नाभविष्यदपि यद्धन्यः प्रशंसास्पदम् ॥ १९॥ इति निर्जराभावना संपूर्णा ॥ ९॥ JainEducation ints For Privale & Personal use only Page #13 -------------------------------------------------------------------------- ________________ ॥ दशमी लोकभावना ॥ जम्बूद्वीपो लवणजलधिर्धातकी पुष्कराद्या, अन्ये द्वीपा वलयवलयाकाररूपा असंख्याः । पारावारा विमतगणना हीपतुल्याभिधानाः, सर्वस्थाने जननमरणं निर्मितं जीव ! तत्र ॥ ५० ॥ लोकं भावय चेतसा स्थितकटीनिर्मुक्तहस्तद्वयी-मानुष्योपममेव धर्मगगनाधर्मप्रदेशान्वितम् । जीवानन्तनिगोदवासनिलयं भूनीरतेजोवृतं, पूर्ण वायुनिकायिकक्षितिरुहेर्देवैनरैर्नारकैः ॥ ५१॥ द्रव्यतोऽन्तसहितः खलु लोकः, क्षेत्रतः प्रकथितोऽपि तथैव । कालतोऽन्तरहितोऽपि तु भावात्स्पर्शवर्णरसगन्धगुणौधैः ॥ ५२ ॥ ज्ञेयो लोकोऽनन्तस्सान्तः, षड्भिर्द्रव्यैर्नित्यानित्यैः । मूर्तामूतैरेकै कैर्जीवाजीवैः कार्याऊर्यैः ॥ ५३ ॥ इति लोकभावना संपूर्णा ॥ १० ॥ JainEducation Internet For Privale & Personal use only jainelibrary.org Page #14 -------------------------------------------------------------------------- ________________ was LARKETore उपदेश शतकम् [१४] ॥ एकादशी बोधिभावना ॥ दुर्लभमेव मनुष्यगतित्वं, दुर्लभमार्यमहीतलजन्म । देवगुरुक्रमपङ्कजसेवा, बोधिमणेरिह दुर्लभयोगः ॥५४॥ विप्राक्षयूतधान्यं युगमणिरजनीनाथपानं तु कूर्मश्चक्रं स्तम्भः किलैभिर्दशभिरतितरां सारदृष्टान्तजातैः । मानुष्यं दुर्गमं यत्कथितमृषिवरैरागमे वीतरागैस्तद्यत्नं बोधिरत्ने कुरुत भविजना! मोहपाशं विमुच्य ॥५५॥ त्यज मोहमतिं भज बोधिरतिं, नम साधुपतिं कृतदेवनतिम् । कुरु दोषहतिं जहि कामगति, धर धर्मततिं गतजन्ममृतिम् ॥ ५६ ॥ लक्ष्मीस्तरङ्गतरला मघवद्धनुर्वदेहं च जीवितमहो! अचिरप्रभावात् । रामाक्षिकूणितमिदं तु विषाक्तबाणस्तहोधिरत्नममलं हृदये निधेहि ॥ ५७ ॥ इति बोधिभावना संपूर्णा ॥ ११ ॥ mariabeas Jain Education Inter For Privale & Personal use only TEtaw.jainelibrary.org Page #15 -------------------------------------------------------------------------- ________________ Jain Education Internation [१५] ॥ द्वादशी धर्मभावना ॥ देवोऽष्टादशदोषवर्जितवपुः सिद्धस्वरूपाकृतिः, साधुः संयमसाधकः श्रुतमतिः स्वाचारयत्नक्षमः । धर्मो जीवदयास्वरूपमतिभृत् स्याद्वादमुद्रान्वितः प्राप्यैतत्रितयं हि दुर्लभतरं कः स्यात्प्रमादी पुनः १ ॥ ५८ ॥ मुनिपतिमुखशैलादुद्गतो धर्मसूर्यो, नयवचनकरैर्यो गाढमिध्यातमिस्रम् । विषयमतिजडत्वं नाशयन् भव्यजन्तु - प्रकरकमलखण्डं शोभयंस्तं भजध्वम् ॥ ५९ ॥ धर्मः प्रभू सर्वत्रतात्मकः कर्मनिघातकच । श्राद्धस्य साधोर्हृदि भावनीयः, प्राणिस्त्वया दुर्लभ एव योगः ॥ ६० ॥ धर्मं चेतसि रक्ष रक्षितजगद्रे मूढ ! किं प्रोच्यते, कालोऽनादिरभूत्तवैव न कदा कुत्रापि लब्धा त्वया । सामग्री गुरुदेवधर्ममतिकृत्संसारसंहारिणी, तद्भाव्या हि पुनः पुनस्तु विजने गत्वातिसद्भावनाः ॥ ६१ ॥ इति धर्मभावना संपूर्णा ॥ १२ ॥ Page #16 -------------------------------------------------------------------------- ________________ उपदेश शतकम् ॥ अथ प्रथमो यतिधर्मः॥ शिवपुरगतौ गन्त्री तन्त्रीमती मृदुभाषणे, स्वगुणरमणे रामा वामा विशारदचातुरी । भवजलनिधेरस्तेऽगस्तेमहागलनालिका, भवति जगति क्षान्तिः शान्तिङ्करी वतिनां सदा ॥ ६२ ॥ क्षमागुणः साधुगणस्य मजुलो, महाव्रतं क्रोधजयाय जायते ।। ___ गुणा विना तं निखिला हि निष्फला, यथैककाङ्कं लिखितास्तु बिन्दवः ॥ ६३ ॥ क्रोधाग्निईन्द्वधूमो धवलशमगृहश्यामकारी प्रवृद्धः, स्वान्तध्वान्तप्रवृत्ति प्रबलशुभमनोभाववृक्षप्रदाही। उद्गच्छत्प्रौढनिन्दाकुवचननिकराचिर्भवेद्यः क्षमाम्भो–धाराभिस्तं विधेहि स्वपरहितकरं चारुनिर्वाणरूपम् ॥६॥ यः क्षमासुयुवति रुचिराङ्गीमुद्हेत्प्रणिपतन्ति सुरास्तम् । निवतिः करगता किल तस्य, स्वर्गवाससुखसम्पदयत्ना ॥६५॥ इति क्षमारूपः प्रथमो यतिधर्मः संपूर्णः ॥ १॥ ॥ ८ ॥ Jan Education For Privale & Personal use only .. .jainelibrary.org Page #17 -------------------------------------------------------------------------- ________________ RITERENCE TEST ॥ अथ द्वितीययतिधर्मः॥ मार्दवं भवति माननिरासाद्यस्य याति स च देवगुरूणाम् । नम्रतां श्रुतसमुद्रविगाही, पूज्य एव जगतां मुनिरेषः ॥ ६६ ॥ महामानाद्रिः स्याहहति खलतावार्धिवनिता, कुबोधः कीनाशो वसति गुरुदोषोढटनता । दरी ध्वान्ता यत्रावगुणचरटाः सन्ति बहवः, कदा तं मा रोहीभंज जनहितं मार्दवगुणम् ॥६५॥ गर्वोत्कर्षी वहति वदनं व्योममुक्ताक्षियुग्मं, गच्छन् भूमि रहितवचनः पश्यति प्रोडतो नो। तन्मन्येऽहं नरकगमनाहीतचित्तस्त्वसौ किं ?, सोऽयं धन्यो निहितयुगदृग्यो व्रजेन्मार्दवाढ्यः ॥ ६८ ॥ निर्गस्त्रिजगति यः स पूजनीयो, गविष्ठः स्वपरकृतान्तवेदिवर्यः । तदृश्याः सुरपतयश्च सार्वभौमाः, स्वहस्तेऽमृतमपि तस्य भावि लभ्यम् ॥ ६९ ॥ इति मार्दवनामा द्वितीयो यतिधर्मः समाप्तः ॥ २ ॥ Jain Education Intel For Privale & Personal use only ACew.jainelibrary.org Page #18 -------------------------------------------------------------------------- ________________ उपदेश शतकम् ॥ अथ तृतीयो धर्मः ॥ चारित्रार्यमरोधनेऽभ्रपटली सत्सङ्गसंछेदने, स्फूर्जत्खगलताञ्चितां गुणमृतौ संसारवाधौ नदीम् । मायां सिद्धिनिषेधिनीं त्यज मुने! व्याघ्रीमिवाध्वस्थितां, मुक्तौ गन्तुमना भवान्यदि तदा निर्व्याजता भज्यताम् ॥ नरकपूर्गमने बत गोपुरं, त्रिदिवमार्गविघातभुजङ्गमः । [७० ॥ सकलदोषमतङ्गजविन्ध्यभूः, परिहर त्वमतः किल कैतवम् ॥ ७१ ॥ माया मण्डनमेव मोहनृपतेः संसारवृक्षाम्बुदो, रातिः सत्यरवेर्विनाशकरणे मिथ्यात्वकेलीगृहम् । विश्वासेन्दुविनिग्रहेऽपि तमसस्तुण्डद्युतिः खानिका, दोषाणां वरसाधुभिः परिहता यैस्तैः प्रलब्धं शिवम् ॥७२॥ पूजन्ति देवांस्तु वपन्ति वित्तं, सत्सु व्रतं चाददते तपन्ति । तपस्त्यजन्ति प्रमदादिवर्ग, मायां न मुञ्चन्ति वृथेति सर्वम् ॥ ७३ ॥ इति आर्जवनामा तृतीयो यतिधर्मः समाप्तः ।। ३ ।। Jain Education Inte For Privale & Personal use only W w .jainelibrary.org Page #19 -------------------------------------------------------------------------- ________________ ॥ अथ चतुर्थो यतिधर्मः॥ धर्मस्तु दुर्लभतरो दिवि मुक्तिनामा, सर्वेषु वस्तुषु निरीहतया मुनीनाम् । सम्पद्यते तनुमनोवचसां समाधि-कृज्जन्मजातिमरणान्तक एव सेव्यः ॥ ७४ ॥ निमग्ना लोभाब्धौ प्रचुरधनतृष्णाघनशिलोपविष्टा ये मर्त्या बहुदुरितवार्याधिमकरे । स वार्धिस्तीर्येतैव कथमपि मुक्तिप्रवहणं, समारुह्येताशु व्रतधरवरैमतिधनैः ॥ ७५ ॥ लुब्धो नरः प्राणधरः परासुश्चिन्ताचितायां शयितस्सदा तत् । यो मुक्तिधर्मं च दधाति चित्ते, मुक्तिं विना मुक्तक एव जीवन् ॥ ७६ ॥ प्रोद्यत्प्रौढप्रतापः प्रणतगजघटाकुम्भमुक्तकमाजश्वञ्चज्योत्स्नन्दुकीय॒ज्ज्वलितसुरनदीतारमुक्तासमूहः । वर्गस्त्रीप्राणनाथेश्वरमुकुटमणिकान्तदीप्तिप्रकर्षस्तेजस्वी निःस्पृहोऽयं विचरति जगति द्वादशात्मप्रभाजित॥७७ इति मुक्तिनामा चतुर्थो यतिधर्मः समाप्तः ॥ ४ ॥ Can Eden For Private & Personal use only Page #20 -------------------------------------------------------------------------- ________________ उपदेश— ॥ १० ॥ Jain Education Inter [२०] ॥ अथ पञ्चमो यतिधर्मः ॥ शुष्कं वनं पल्लवितं तु शत्रुः, सुहृत्कृशानुः सलिलं भुजङ्गः । सगर्णवो निर्जलभूमिदेशस्तपःप्रभावाच्च भवेज्जगत्याम् ॥ ७८ ॥ तपोनामा धर्म्मः समुचितफलं यच्छति यतेर्गुणाकर्षी वर्षी प्रशमपयसां कर्मदहनः । क्षमायुक्तो मुक्ते रथ इव पथः शीघ्रगमनः, प्रयत्नं रत्ने सन्महसि तपसीतः सृजतराम् ॥ ७९ ॥ बाह्याभ्यन्तरषट्करूपतपसो विज्ञात्प्रणश्येन्मुनेर्दारिद्र्यं भवकाननभ्रमणजं प्रादुर्भवेत्सन्निधिः । शीलं संयममन्दिरं च युवतिनींरागता सम्भवेत्पुत्रः केवलसंज्ञको भुवि ततो भाग्याद्भुतो जायते ॥ ८० ॥ कुसुमविशिखो यस्माद्भस्मावशेषतनुर्भवेदिव विधुभृतः पद्मा सद्मागतैव हरेर्यथा । वसति च मुखे वाणी पाणीकृतेव गृहेऽर्थता, करणकरिणां घाते तप्तं तपो हरिसन्निभम् ॥ ८१ ॥ इति तपोनामा पञ्चमो यतिधर्मः संपूर्णः ॥ ५ ॥ शतकम् ८ ॥ १० ॥ w.jainelibrary.org Page #21 -------------------------------------------------------------------------- ________________ Jain Education Intere [२१] ॥ अथ षष्ठो यतिधर्मः ॥ क्षोणीपानीयतेजोमरुद्गविकलाऽजीव पञ्चेन्द्रियेषु, प्रेक्षोपेक्षामनोवाक्करणगृहरजोमार्जनोत्सर्जनेषु । यः कर्मानाश्रवश्चेद्वरविरतिमतां संयमो मोक्षमार्गस्तद्धर्मे सोद्यमस्त्वं भव च जिगमिषुर्निर्वृतौ शर्मभाजि ॥ ८२ ॥ प्राणातिपातानृतचौर्यरामा - परिग्रहाक्षस्य कषायकस्य । योगत्रिकस्यैव निरोधरूपो यः संयमः सङ्गमकृत्स सिद्धेः ॥ ८३ ॥ दास्यं लास्यति तस्य वासववधूचकी चकारार्चनां, हास्यं मुञ्चति सङ्गतिं सुभगता कण्ठं समालिङ्गति । कीर्त्तिश्रीः प्रददाति दक्षिणकरं चास्ते मुखे भारती, यस्मिन्संयमभूपतिर्निविशते प्रोन्मूलितारिव्रजः ॥ ८४ ॥ संयमः समतयाञ्चितदेहो, लेह एवं सुकृतान्तसुधायाः । शीलधामहतकामतमिस्रो, भूतले विजयते परचन्द्रः ॥ ८५ ॥ संयमनामा षष्ठो यतिधर्मः समाप्तः ॥ ६ ॥ Page #22 -------------------------------------------------------------------------- ________________ [२२] उपदेश शतकम ॥ अथ सप्तमो यतिधर्मः॥ सत्यादित्यो नयांशुर्जिनपतिवदनादुद्गतस्तूदयादमिथ्यात्वध्वान्तपति प्रतिदिशमतिहशोभयन् नव्यपद्मम् । S/मायारात्रिं निरस्यञ्शुभरुचिदिवसं दर्शयंश्छोटयन्यस्तिर्यकण्ठप्रबन्धं विरचय मनसा सेवनां तस्य नित्यम्॥८६॥ नीवृत्स्वाकृतिनामरूपमुपमा योगः प्रतीत्यर्जुता, भावश्च व्यवहारसम्मतमिति प्रज्ञापनायां दश । भेदा ये कथिता हि सत्यवचसो ज्ञात्वैव तान् ब्रूयतां, भव्यैः सत्यविचक्षणैर्भगवतो निर्देशकारैर्जनैः॥ ८७॥ क्रोधादिनिःसृतवचो भवपातहेतुः, पाषाणखण्डमिव वारिनिधेरधस्तात् । सत्यं शमप्रभवमूर्ध्वगतेनिमित्तं, तुम्बीफलं पयसि शुष्कतरं यथैव ॥ ८८ ॥ एकं सत्यं भवाम्भोधितरणवहनं मोहपाशापहारि, प्राणित्राणं तनुत्रं सुभटकरगतास्युत्थभीतेरिवाजौ । साधुः संविग्नपक्षी व्रजति शिवपुरं सत्यवाहेन शीघ्रं, भ्राम्येत्संसारकक्षे निखिलनियमभृत्तद्विना व्यर्थमत्र॥८९॥ इति सत्यनामा यतिधर्मः सप्तमः समाप्तः ।। Jain Education Intemations For Privale & Personal use only Page #23 -------------------------------------------------------------------------- ________________ - - [२३] ॥ अथ अष्टमो यतिधर्मः ॥ शौचं चेन्द्रियनिग्रहः परधनत्यागो रतोत्सर्जनं, मायामोहविवर्जनं त्वखलता निष्पृष्ठिमांसादनम् । शौचं सर्वशरीरिरक्षणमपां स्नानेन शुद्धिर्नवा, किं मत्स्या जलचारिणोऽपि सुगतिं गच्छेयुरस्तांहसः ? ॥१०॥ उपशमरसैर्मिश्रे शुभ्रे शुभाशयशोणगे, सरुचिपयसि ज्ञानाम्भोजे सशीलसुगन्धिते । चरणशिशिरे बोधागाधे दयालहरीचिते, कुरु कलिमलं दूरे शौचं विधेहि विवेकतः ॥ ९१ ॥ नय मनः स्ववशं हर दुर्मति, जिनमते सनये तनु धीषणाम् । भज जिनेश्वरपादसरोरुहं, भुवि न चेतन ! शौचमतः परम् ॥ ९२ ॥ अनन्तभवचक्रजभ्रमणतो बहुद्रव्यजा, व्यधायि शुचिता मयोदधिसरित्सरोऽम्भोऽन्तरे । विनेन्द्रियदमं मनोनियमनं च नाभूत्कदा, स्वभावशुचिता ततः प्रयततां तु तत्राधिकम् ॥ ९३ ॥ ॥ इति शौचनामा अष्टमो यतिधर्मः संपूर्णः ॥ ८॥ For Privale & Personal use only Page #24 -------------------------------------------------------------------------- ________________ शतकम् उपदशे-- ॥१२॥ [२५] ॥ अथ नवमो यति धर्मः॥ धनरजतसुवर्णक्षेत्रकुप्यालयान्न-नृपशुनवविधोऽयं संग्रहो दुर्गतिं यत् । नयति निखिलजीवांस्तद्भजस्वानगार!, निजतनुममतायास्त्यागतोऽकिञ्चनत्वम् ॥ ९४ ॥ अकिञ्चनतया यतेनवमधर्म एव श्रुतः, क्षितौ क्षपितकर्मकः परमयोगदीपाम्बरम् । सुचित्तजलसंवरः कमनमेघचण्डाशुगः प्रमाददहनाम्बुदो मनसि धीयतां स त्वया ॥ ९५ ॥ Faमातापित्रोश्च सेवां न गणयति वशांप्रीतिरीतिं सुतानां, मित्राणां नैव मैत्री स्वचरणवशिनां सेवकानां च मूल्यम्। भक्तिं साधर्मिकाणां सुगुरुभगवतामर्चनां कर्महीं, जन्तुश्चेत्काञ्चनार्थी परिहर हृदयं काञ्चनेऽकिञ्चनातः॥१६॥ महानों यस्माज्जगति जगतीलङ्घनमयः, पयोधौ संपाते मृतिभृति च धावन्ति पुरुषाः । त्यजन्ति स्वं धर्म परमगुणहेतुं च यतयो, जहीहि स्वर्णं त्वं नवममुनिधर्मं कुरु करे ॥ ९७ ॥ इति अकिञ्चननामा नवमो यतिधर्मः संपूर्णः ॥ ९ ॥ JainEducation Inted For Privale & Personal use only A w.jainelibrary.org Page #25 -------------------------------------------------------------------------- ________________ (२५] ॥ अथ दशमो यतिधर्मः॥ शीलं रत्नं हरति घनवच्छोकदारिद्रयवह्नि, शीलं मन्त्रं स्मरफणिविषं चौषधीवद्भिनत्ति । शीलं वज्र खनति नगवन्मोहशत्रु समर्थ, शीलं चक्रं चरणनगरं रक्षति क्षुद्रभीतेः ॥ ९८ ॥ शीलं सौभाग्यधाम प्रबलशुचियशोदिक्पथोल्लङ्घनाश्वः, स्वाहाभुक्कल्पवृक्षोपचयततिकरं सिद्धिसोपानरूपम् । सच्चारित्रद्रुबीजं भवभयतटिनीभर्तगस्त्यास्यभूतं, प्रोत्सृज्योन्मादकन्थां मणिचितवसनं स्वीकुरु ब्रह्मचर्यम् ॥ शिवगृहशिरोगेहारोहे वरा त्वधिरोहिणी, त्रिभुवनकृतस्थानासूनां वशीकरणं ध्रुवम् । [९९॥ समवसरणश्रीवासाम्भोजमात्मसरःस्थलं, दशमसुशमिश्रेयोधर्मोऽस्त्यमैथुननामकः ॥१०॥ नुदति मदगदौघं राति शौर्यं त्वमोघं, गमयति च दिगन्तं वैरिणी कीर्तिकान्ताम् । रमयति निजलक्ष्मी स्वाङ्गणे रागिणीं वः, प्रथयति गुणराशिं शीलमातं जनानाम् ॥ १०१ ॥ ॥ इाते दशमो ब्रह्मचर्यनामा यतिधर्मः संपूर्णः १० ॥ Jain Education Internet For Privale & Personal use only W w .jainelibrary.org Page #26 -------------------------------------------------------------------------- ________________ उपदेश शतकम् अथ ग्रन्थप्रशस्तिः ॥ श्रीआनन्दाभिधाना विमलपदभृतः सत्तपागच्छसूर्यास्तेषां चन्द्रः पदेऽभूहिजयपदधरो दानसूरीश्वरश्च ।। श्रीमद्धीराभिधानःपुनरपि सविता चोद्गतो ध्वान्तलोपी,साहिश्रीअक्बरेण प्रकटितमहिमा दुर्जनाम्भःप्रणाशात श्रीसेनश्वेतवाजी धृतविजयपदो देवसूरिदिनेशः, सूरास्ते श्रीप्रभाख्यो मृगभृदभिनवोऽभूत्तमोध्वंसकारी। । जातः श्रीज्ञानसूरिविमलपदरविर्योतितार्हत्पथाग्रः, श्रीमत्सौभाग्यवाहीं रुचिरगुणधरः सूरिमुख्यो बभूव॥१०३॥ प्रोद्भूतः पदृसूर्यः सुमतिजलनिधिः सूरिराजस्तपस्वी, यावजीवोज्झिताज्येतरविकृतितपोवर्धमानाख्यधारी ।। संविमो भिक्षुकोऽभूदिह च कलियुगे धन्य एवापरोऽयं, श्रीसिद्धाद्रौ प्रतिष्ठाकृदपि बहुगुणः सङ्घभाग्येन जातः॥ गीतार्थो ग्रन्थकर्ता विजयपदपरः श्रीयशोवाचकेशो, यः सत्संविग्नपक्षीतिबिरुदविबुधस्तर्कसंपर्कबुद्धिः। Salन्यायाचार्यस्तु काश्यां द्विजकृतमहिमो लब्धविद्याप्रतिष्ठस्तत्साहाय्यप्रदानान्मुदितजनपदोऽभून्मुनिः सिंहशूरः॥ ॥१०३॥ For Privale & Personal Use Only Mainelibrary.org Page #27 -------------------------------------------------------------------------- ________________ संवेगी साधुसिंहदि विमलसुगुरुर्बोधिबीजं वपन्यो, ग्रामे ग्रामे व्यहार्षीत्सुविहितनिकरो देशनाभिर्जगत्याम् । मिथ्यात्वस्तम्भमर्दी मदनतरुजडोन्मूलने हस्तिवीर्यो,गाम्भीर्यक्षोभिताब्ध्युद्धतसलिलभरो निःस्पृहः शुद्धभोजी॥ विमलकीर्तिधरो भुवि तच्छिशुर्विमलकीर्त्तिगुरुर्गुणसागरः । विमलशिष्यजनैः परगौतमो, विमलशासनशोभितदेशनः ॥ १०७॥ विबुधविमलसूरिस्तच्छिशुः सङ्घसेवी, सुमतिजलधिसूरेलब्धसूरित्वसंज्ञः। निजपरहितहेतोस्तत्त्वसारोपदेशं, शतकमितसुकाव्यैर्ग्रन्थरूपं व्यधत्त ॥ १०८ ॥ कृशानुनन्दमुनिचन्द्र-मितेऽब्दे श्रावणासितपञ्चम्याम् । उपदेशशतकारव्यग्रन्थः समाप्तोऽभूत्पत्तने ॥१०॥ इति श्रीउपदेशशतकनामा ग्रन्थः समाप्तो जातः इति श्रेष्ठि-देवचन्द्रलालभाई-जैन पुस्तकोद्धार -प्रन्थाङ्क ॥ Jain Education Inte For Privale & Personal use only Page #28 -------------------------------------------------------------------------- ________________ प्रश्न करकरtxxx कलन इति श्रीविबुधविमलकृतम्-उपदेशशतकम् समाप्तम् // FRORESEARSA इति श्रेष्ठि-देव चन्द्रलालभाई-जैनपुस्तकोद्धार-प्रन्थाङ्क: PRESHESKHEKASKESKTASTERESHEKASSES KEBRLS4A Printed at the Brahmavadin Press, Madras. For Privale & Personal use only