________________
शतकम्
उपदेश
[]
॥पञ्चमी अन्यत्वभावना ॥ अन्यच्छरीरं धनधान्यमन्यदन्यैव रामा गृहभारशक्ता ।
अन्ये त्वदीयाः सुतबान्धवाद्याः, सर्व पृथक्त्वं(क्वं) नखवच्च हस्तात् ॥ ३०॥ पाषाणात्सलिलं मणिर्विषधरात्तोयाच्च तैलं यथा, शर्वर्या दिवसं तमो दिनमणेश्छायातपादिग्गता । श्वेतात् कृष्णतरः कटोश्च मधुरो दुःखात्सुखं चापरं, तद्वत्सर्वमिदं हि वस्तु भवतो विद्धि त्वमन्यत्तथा ॥ ३१॥ वहति वृषभः सारं भारं गृहे घृतभुक् सदा, यदि स च जराजीर्णोऽभून्नो लभेत तृणं तदा । अयमिव भवे लोकः शोकाकुलः किल सर्वदा, किमु जडमतेऽन्यार्थ स्वाथै त्यजेर्भवमर्मदा (:) ॥ ३२॥
जनन्या ययाधारि कुक्षौ सुतो यः, पयोऽपायि विष्मूत्रशुद्धिस्त्वकारि । युवाऽभूद्यदा तेन जाया न्यषेवि, ततोऽन्यन्मयाऽज्ञायि धर्मः सहायः ॥ ३३ ॥
इति अन्यत्वभावना संपूर्णा ॥ ५॥
॥४
॥
Jan Eden
For Privale & Personal use only
www.jainelibrary.org