________________
॥ षष्ठी अशुचिभावना ॥ सपलरक्तसिराजिनकीकशे, शमलमूत्रमलाविलपुद्गले । अरुचिरे नचिरे हि कलेवरे, मुयुवतेर्भवतेरितमक्षि किम् ? ॥ ३४ ॥ नयनयोः कुचयोर्भुजयोर्भुवोः, श्रवणयोः करयोः कचबन्धने । किमपि चारु न चर्मनिगुम्फितं, पिशितपूरितनिन्दितभाजनम् ॥ ३५ ॥ प्रथममेव विलोकय चिदृशा, निजतनौ विवराणि वहन्त्यरम् ।
नव जुगुप्सितगन्धरसानि तन्ममतया विदधासि हितं न किम् ? ॥ ३६ ॥ अनुदिनं द्वययुग्दशरन्ध्रभृयुवतिविग्रहकर्करमन्दिरम् । नगरसारणिवत्स्रवतीदृशं,त्यज मनो भज पारगतं वचः३७॥
__इति अशुचिभावना संपूर्णा ॥ ६ ॥
Jain Education.in
For Privale & Personal use only
w.jainelibrary.org