________________
॥ दशमी लोकभावना ॥ जम्बूद्वीपो लवणजलधिर्धातकी पुष्कराद्या, अन्ये द्वीपा वलयवलयाकाररूपा असंख्याः । पारावारा विमतगणना हीपतुल्याभिधानाः, सर्वस्थाने जननमरणं निर्मितं जीव ! तत्र ॥ ५० ॥ लोकं भावय चेतसा स्थितकटीनिर्मुक्तहस्तद्वयी-मानुष्योपममेव धर्मगगनाधर्मप्रदेशान्वितम् । जीवानन्तनिगोदवासनिलयं भूनीरतेजोवृतं, पूर्ण वायुनिकायिकक्षितिरुहेर्देवैनरैर्नारकैः ॥ ५१॥
द्रव्यतोऽन्तसहितः खलु लोकः, क्षेत्रतः प्रकथितोऽपि तथैव । कालतोऽन्तरहितोऽपि तु भावात्स्पर्शवर्णरसगन्धगुणौधैः ॥ ५२ ॥ ज्ञेयो लोकोऽनन्तस्सान्तः, षड्भिर्द्रव्यैर्नित्यानित्यैः । मूर्तामूतैरेकै कैर्जीवाजीवैः कार्याऊर्यैः ॥ ५३ ॥
इति लोकभावना संपूर्णा ॥ १० ॥
JainEducation Internet
For Privale & Personal use only
jainelibrary.org