________________
was
LARKETore
उपदेश
शतकम्
[१४]
॥ एकादशी बोधिभावना ॥ दुर्लभमेव मनुष्यगतित्वं, दुर्लभमार्यमहीतलजन्म । देवगुरुक्रमपङ्कजसेवा, बोधिमणेरिह दुर्लभयोगः ॥५४॥ विप्राक्षयूतधान्यं युगमणिरजनीनाथपानं तु कूर्मश्चक्रं स्तम्भः किलैभिर्दशभिरतितरां सारदृष्टान्तजातैः । मानुष्यं दुर्गमं यत्कथितमृषिवरैरागमे वीतरागैस्तद्यत्नं बोधिरत्ने कुरुत भविजना! मोहपाशं विमुच्य ॥५५॥
त्यज मोहमतिं भज बोधिरतिं, नम साधुपतिं कृतदेवनतिम् । कुरु दोषहतिं जहि कामगति, धर धर्मततिं गतजन्ममृतिम् ॥ ५६ ॥ लक्ष्मीस्तरङ्गतरला मघवद्धनुर्वदेहं च जीवितमहो! अचिरप्रभावात् । रामाक्षिकूणितमिदं तु विषाक्तबाणस्तहोधिरत्नममलं हृदये निधेहि ॥ ५७ ॥
इति बोधिभावना संपूर्णा ॥ ११ ॥
mariabeas
Jain Education Inter
For Privale & Personal use only
TEtaw.jainelibrary.org