________________
Jain Education Intere
[२१]
॥ अथ षष्ठो यतिधर्मः ॥
क्षोणीपानीयतेजोमरुद्गविकलाऽजीव पञ्चेन्द्रियेषु, प्रेक्षोपेक्षामनोवाक्करणगृहरजोमार्जनोत्सर्जनेषु । यः कर्मानाश्रवश्चेद्वरविरतिमतां संयमो मोक्षमार्गस्तद्धर्मे सोद्यमस्त्वं भव च जिगमिषुर्निर्वृतौ शर्मभाजि ॥ ८२ ॥ प्राणातिपातानृतचौर्यरामा - परिग्रहाक्षस्य कषायकस्य ।
योगत्रिकस्यैव निरोधरूपो यः संयमः सङ्गमकृत्स सिद्धेः ॥ ८३ ॥
दास्यं लास्यति तस्य वासववधूचकी चकारार्चनां, हास्यं मुञ्चति सङ्गतिं सुभगता कण्ठं समालिङ्गति । कीर्त्तिश्रीः प्रददाति दक्षिणकरं चास्ते मुखे भारती, यस्मिन्संयमभूपतिर्निविशते प्रोन्मूलितारिव्रजः ॥ ८४ ॥ संयमः समतयाञ्चितदेहो, लेह एवं सुकृतान्तसुधायाः ।
शीलधामहतकामतमिस्रो, भूतले विजयते परचन्द्रः ॥ ८५ ॥ संयमनामा षष्ठो यतिधर्मः समाप्तः ॥ ६ ॥
For Private & Personal Use Only
www.jainelibrary.org