________________
-
-
[२३]
॥ अथ अष्टमो यतिधर्मः ॥ शौचं चेन्द्रियनिग्रहः परधनत्यागो रतोत्सर्जनं, मायामोहविवर्जनं त्वखलता निष्पृष्ठिमांसादनम् । शौचं सर्वशरीरिरक्षणमपां स्नानेन शुद्धिर्नवा, किं मत्स्या जलचारिणोऽपि सुगतिं गच्छेयुरस्तांहसः ? ॥१०॥
उपशमरसैर्मिश्रे शुभ्रे शुभाशयशोणगे, सरुचिपयसि ज्ञानाम्भोजे सशीलसुगन्धिते । चरणशिशिरे बोधागाधे दयालहरीचिते, कुरु कलिमलं दूरे शौचं विधेहि विवेकतः ॥ ९१ ॥
नय मनः स्ववशं हर दुर्मति, जिनमते सनये तनु धीषणाम् ।
भज जिनेश्वरपादसरोरुहं, भुवि न चेतन ! शौचमतः परम् ॥ ९२ ॥ अनन्तभवचक्रजभ्रमणतो बहुद्रव्यजा, व्यधायि शुचिता मयोदधिसरित्सरोऽम्भोऽन्तरे । विनेन्द्रियदमं मनोनियमनं च नाभूत्कदा, स्वभावशुचिता ततः प्रयततां तु तत्राधिकम् ॥ ९३ ॥
॥ इति शौचनामा अष्टमो यतिधर्मः संपूर्णः ॥ ८॥
Jain Education International
For Privale & Personal use only
www.jainelibrary.org