________________
उपदेश
शतकम्
॥२॥
श्रुत्वा सारं प्रवचनवचो ज्ञायते कार्यजातं, दौर्जन्यं स्वं त्वपरखलता सज्जनत्वं सुधीत्वम् । लोकाकारो दिवनरकयोराकृतिश्चित्तवृत्तिः, शुद्धा श्रद्धा गुरुविनयिता देवपूजाप्रभावः॥ १३ ॥ अनित्यं संसारे भवति सकलं यन्नयनगं, वपुर्वित्तं रूपं मणिकनकगोऽश्वद्विपजनम् । पुरं रामा भ्राता जनकजननीनन्दनकुलं, बलं देहोद्भूतं वचनपटुता भाग्यभवनम् ॥ १४ ॥ गगनधनुषा मेयं देहं पयोधितरङ्गवद् , बहु धनमिदं त्वायुर्वायुर्यथा जगतीतले । सुतनुयुवतिस्नेहो लेहो विषाक्तकृपाणजोऽविचलसुखदो धर्मः कर्मक्षयः क्रियतामतः॥१५॥ [स्थिरम् ? ॥१६॥ भवति कोऽद्य न चक्रधरो हरिर्जिनवरः पृथिवीतलभूषणम् । रविविधू चपलौ खलु दृग्गतौ, तव भवेऽत्र भवेज्जड!किं दृश्यन्ते दिवसोदये जगति ये भावास्तु सायं न ते, भुक्तं भोजनमेव षड्रसयुतं तत्कालनाशं गतम् ।। बालत्वं बत यौवनं च गदतः क्षीणाङ्गता वृद्धताऽङ्गेवस्थां हि विलोक्य सारसमताधर्मे प्रयत्नं कुरु ॥ १७ ॥
इति अनित्यभावना संपूर्णा ॥ १॥
JainEducation Inter
For Private & Personal use only
X
w.jainelibrary.org