________________
संवेगी साधुसिंहदि विमलसुगुरुर्बोधिबीजं वपन्यो, ग्रामे ग्रामे व्यहार्षीत्सुविहितनिकरो देशनाभिर्जगत्याम् । मिथ्यात्वस्तम्भमर्दी मदनतरुजडोन्मूलने हस्तिवीर्यो,गाम्भीर्यक्षोभिताब्ध्युद्धतसलिलभरो निःस्पृहः शुद्धभोजी॥
विमलकीर्तिधरो भुवि तच्छिशुर्विमलकीर्त्तिगुरुर्गुणसागरः ।
विमलशिष्यजनैः परगौतमो, विमलशासनशोभितदेशनः ॥ १०७॥ विबुधविमलसूरिस्तच्छिशुः सङ्घसेवी, सुमतिजलधिसूरेलब्धसूरित्वसंज्ञः।
निजपरहितहेतोस्तत्त्वसारोपदेशं, शतकमितसुकाव्यैर्ग्रन्थरूपं व्यधत्त ॥ १०८ ॥ कृशानुनन्दमुनिचन्द्र-मितेऽब्दे श्रावणासितपञ्चम्याम् । उपदेशशतकारव्यग्रन्थः समाप्तोऽभूत्पत्तने ॥१०॥
इति श्रीउपदेशशतकनामा ग्रन्थः समाप्तो जातः इति श्रेष्ठि-देवचन्द्रलालभाई-जैन पुस्तकोद्धार -प्रन्थाङ्क ॥
Jain Education Inte
For Privale & Personal use only
www.jainelibrary.org