________________
॥ अष्टमी संवरभावना ॥ घनमुनिवराः श्राद्धाः सिद्धा मनस्तनुसंवरात् , प्रभवति महालब्धिव्यूहो गदार्तिविनाशकः । त्रिदशपतयो देव्यो नार्यो नमन्ति नरेश्वरा, असुरविभवः श्रीमद्वीरं समाधिसमन्वितम् ॥ ४२ ॥ समवसरणे रत्नैः स्वर्णैः कृते रजतैर्मणी-कनकरचिते स्थित्वा सिंहासने परमेष्ठिनः। नृपशुसुरवाक्संवादिन्या गिरोपदिशन्ति ते, पिहितसकलाक्षव्यापाराच्छिवं व्रतसंवरात् ॥ ४३ ॥ धरत समितिं गुप्ति मेयां त्रिभिः किल पञ्चभिस्त्यजत हि मनोभृङ्गं सङ्गीभवन्तमहेनिशम् । विरसविषये पुष्पौपम्ये परीषहवाहिनी, जयत जगदीशोक्ते मुक्तर्निबन्धनमीरितम् ॥ ४४ ॥ करणसदनद्वारावारं विभाननिवासद, भजत भविनोऽवश्यं वश्यं भवेच्च शिवाश्रियः । चरमभगवद्भक्ता सिहायिका वरदायिनी, सृजति सुखकृहिन्नाभावं सुसंवरिणामिह ॥ ४५ ॥
इति श्रीवीरजिनस्तुतिगर्भितसंवरभावना संपूर्णा ॥ ८॥
Sain Education Inter
For Privale & Personal use only
www.jainelibrary.org