________________
॥ अथ चतुर्थो यतिधर्मः॥ धर्मस्तु दुर्लभतरो दिवि मुक्तिनामा, सर्वेषु वस्तुषु निरीहतया मुनीनाम् । सम्पद्यते तनुमनोवचसां समाधि-कृज्जन्मजातिमरणान्तक एव सेव्यः ॥ ७४ ॥ निमग्ना लोभाब्धौ प्रचुरधनतृष्णाघनशिलोपविष्टा ये मर्त्या बहुदुरितवार्याधिमकरे । स वार्धिस्तीर्येतैव कथमपि मुक्तिप्रवहणं, समारुह्येताशु व्रतधरवरैमतिधनैः ॥ ७५ ॥
लुब्धो नरः प्राणधरः परासुश्चिन्ताचितायां शयितस्सदा तत् ।
यो मुक्तिधर्मं च दधाति चित्ते, मुक्तिं विना मुक्तक एव जीवन् ॥ ७६ ॥ प्रोद्यत्प्रौढप्रतापः प्रणतगजघटाकुम्भमुक्तकमाजश्वञ्चज्योत्स्नन्दुकीय॒ज्ज्वलितसुरनदीतारमुक्तासमूहः । वर्गस्त्रीप्राणनाथेश्वरमुकुटमणिकान्तदीप्तिप्रकर्षस्तेजस्वी निःस्पृहोऽयं विचरति जगति द्वादशात्मप्रभाजित॥७७
इति मुक्तिनामा चतुर्थो यतिधर्मः समाप्तः ॥ ४ ॥
Can Eden
For Private & Personal use only