________________
उपदेश
शतकम्
॥ तृतीया संसारभावना ॥ संसारस्य सुखं त्वयापि बहुशो भुक्तं भवे भ्राम्यता, योनिः काचन नास्ति यत्र न मृतो जातो न वा त्वं कदा । प्रीतिं किं विदधासि तत्र जडधी रोगाधिशोकाकुले, बुद्धि जैनमते निधेहि नितरां संसारमोहं त्यजन् ॥ २२ ॥
कदाचिद्देवोऽभूः क्वचिदपि नरः प्राणविकलो, गतिस्तिर्यग्योनौ जनकजननीभेदरहितः।।
महत्कष्टं सोढं नरकभवजं वर्षशतकैरहो ! अद्यापि त्वं भवविरतिमस्मिन्न लभसे ॥ २३ ॥ Mail कचिदपि हयः सिंहः सो गजो ऋ(ख)षभःखरः, क्वचिदजगरोऽभूस्त्वं चाखुः कदापि मृगः शुनः । भुवि पयसि वा वह्नौ वायौ वनस्पतिके स्थितो, जड! किमधुना संसारेऽस्मिन् रतिस्तव तादृशी ? ॥ २४ ॥
धनेशो वराको नृपो दासवृत्तिरपुत्रः सपुत्रः कदा कामरूपः । कुरूपः सयोगी वियोगी नरोऽभूर्यथा चाधुना मृढ धर्म भज त्वम् ॥ २५ ॥
इति संसारभावना संपूर्णा ॥ ३ ॥
Jain Education International
For Privale & Personal use only
www.jainelibrary.org