Book Title: Updesh Shataka
Author(s): Vimalsuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
शतकम्
उपदशे--
॥१२॥
[२५]
॥ अथ नवमो यति धर्मः॥ धनरजतसुवर्णक्षेत्रकुप्यालयान्न-नृपशुनवविधोऽयं संग्रहो दुर्गतिं यत् । नयति निखिलजीवांस्तद्भजस्वानगार!, निजतनुममतायास्त्यागतोऽकिञ्चनत्वम् ॥ ९४ ॥ अकिञ्चनतया यतेनवमधर्म एव श्रुतः, क्षितौ क्षपितकर्मकः परमयोगदीपाम्बरम् ।
सुचित्तजलसंवरः कमनमेघचण्डाशुगः प्रमाददहनाम्बुदो मनसि धीयतां स त्वया ॥ ९५ ॥ Faमातापित्रोश्च सेवां न गणयति वशांप्रीतिरीतिं सुतानां, मित्राणां नैव मैत्री स्वचरणवशिनां सेवकानां च मूल्यम्।
भक्तिं साधर्मिकाणां सुगुरुभगवतामर्चनां कर्महीं, जन्तुश्चेत्काञ्चनार्थी परिहर हृदयं काञ्चनेऽकिञ्चनातः॥१६॥ महानों यस्माज्जगति जगतीलङ्घनमयः, पयोधौ संपाते मृतिभृति च धावन्ति पुरुषाः । त्यजन्ति स्वं धर्म परमगुणहेतुं च यतयो, जहीहि स्वर्णं त्वं नवममुनिधर्मं कुरु करे ॥ ९७ ॥
इति अकिञ्चननामा नवमो यतिधर्मः संपूर्णः ॥ ९ ॥
JainEducation Inted
For Privale & Personal use only
A
w.jainelibrary.org

Page Navigation
1 ... 22 23 24 25 26 27 28