Book Title: Updesh Shataka
Author(s): Vimalsuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 23
________________ - - [२३] ॥ अथ अष्टमो यतिधर्मः ॥ शौचं चेन्द्रियनिग्रहः परधनत्यागो रतोत्सर्जनं, मायामोहविवर्जनं त्वखलता निष्पृष्ठिमांसादनम् । शौचं सर्वशरीरिरक्षणमपां स्नानेन शुद्धिर्नवा, किं मत्स्या जलचारिणोऽपि सुगतिं गच्छेयुरस्तांहसः ? ॥१०॥ उपशमरसैर्मिश्रे शुभ्रे शुभाशयशोणगे, सरुचिपयसि ज्ञानाम्भोजे सशीलसुगन्धिते । चरणशिशिरे बोधागाधे दयालहरीचिते, कुरु कलिमलं दूरे शौचं विधेहि विवेकतः ॥ ९१ ॥ नय मनः स्ववशं हर दुर्मति, जिनमते सनये तनु धीषणाम् । भज जिनेश्वरपादसरोरुहं, भुवि न चेतन ! शौचमतः परम् ॥ ९२ ॥ अनन्तभवचक्रजभ्रमणतो बहुद्रव्यजा, व्यधायि शुचिता मयोदधिसरित्सरोऽम्भोऽन्तरे । विनेन्द्रियदमं मनोनियमनं च नाभूत्कदा, स्वभावशुचिता ततः प्रयततां तु तत्राधिकम् ॥ ९३ ॥ ॥ इति शौचनामा अष्टमो यतिधर्मः संपूर्णः ॥ ८॥ Jain Education International For Privale & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28