Book Title: Updesh Shataka
Author(s): Vimalsuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
[२२]
उपदेश
शतकम
॥ अथ सप्तमो यतिधर्मः॥ सत्यादित्यो नयांशुर्जिनपतिवदनादुद्गतस्तूदयादमिथ्यात्वध्वान्तपति प्रतिदिशमतिहशोभयन् नव्यपद्मम् । S/मायारात्रिं निरस्यञ्शुभरुचिदिवसं दर्शयंश्छोटयन्यस्तिर्यकण्ठप्रबन्धं विरचय मनसा सेवनां तस्य नित्यम्॥८६॥ नीवृत्स्वाकृतिनामरूपमुपमा योगः प्रतीत्यर्जुता, भावश्च व्यवहारसम्मतमिति प्रज्ञापनायां दश । भेदा ये कथिता हि सत्यवचसो ज्ञात्वैव तान् ब्रूयतां, भव्यैः सत्यविचक्षणैर्भगवतो निर्देशकारैर्जनैः॥ ८७॥
क्रोधादिनिःसृतवचो भवपातहेतुः, पाषाणखण्डमिव वारिनिधेरधस्तात् ।
सत्यं शमप्रभवमूर्ध्वगतेनिमित्तं, तुम्बीफलं पयसि शुष्कतरं यथैव ॥ ८८ ॥ एकं सत्यं भवाम्भोधितरणवहनं मोहपाशापहारि, प्राणित्राणं तनुत्रं सुभटकरगतास्युत्थभीतेरिवाजौ । साधुः संविग्नपक्षी व्रजति शिवपुरं सत्यवाहेन शीघ्रं, भ्राम्येत्संसारकक्षे निखिलनियमभृत्तद्विना व्यर्थमत्र॥८९॥
इति सत्यनामा यतिधर्मः सप्तमः समाप्तः ।।
Jain Education Intemations
For Privale & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28