Book Title: Updesh Shataka
Author(s): Vimalsuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 25
________________ (२५] ॥ अथ दशमो यतिधर्मः॥ शीलं रत्नं हरति घनवच्छोकदारिद्रयवह्नि, शीलं मन्त्रं स्मरफणिविषं चौषधीवद्भिनत्ति । शीलं वज्र खनति नगवन्मोहशत्रु समर्थ, शीलं चक्रं चरणनगरं रक्षति क्षुद्रभीतेः ॥ ९८ ॥ शीलं सौभाग्यधाम प्रबलशुचियशोदिक्पथोल्लङ्घनाश्वः, स्वाहाभुक्कल्पवृक्षोपचयततिकरं सिद्धिसोपानरूपम् । सच्चारित्रद्रुबीजं भवभयतटिनीभर्तगस्त्यास्यभूतं, प्रोत्सृज्योन्मादकन्थां मणिचितवसनं स्वीकुरु ब्रह्मचर्यम् ॥ शिवगृहशिरोगेहारोहे वरा त्वधिरोहिणी, त्रिभुवनकृतस्थानासूनां वशीकरणं ध्रुवम् । [९९॥ समवसरणश्रीवासाम्भोजमात्मसरःस्थलं, दशमसुशमिश्रेयोधर्मोऽस्त्यमैथुननामकः ॥१०॥ नुदति मदगदौघं राति शौर्यं त्वमोघं, गमयति च दिगन्तं वैरिणी कीर्तिकान्ताम् । रमयति निजलक्ष्मी स्वाङ्गणे रागिणीं वः, प्रथयति गुणराशिं शीलमातं जनानाम् ॥ १०१ ॥ ॥ इाते दशमो ब्रह्मचर्यनामा यतिधर्मः संपूर्णः १० ॥ Jain Education Internet For Privale & Personal use only W w .jainelibrary.org

Loading...

Page Navigation
1 ... 23 24 25 26 27 28