Book Title: Updesh Shataka
Author(s): Vimalsuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
उपदेश
शतकम्
॥ अथ प्रथमो यतिधर्मः॥ शिवपुरगतौ गन्त्री तन्त्रीमती मृदुभाषणे, स्वगुणरमणे रामा वामा विशारदचातुरी । भवजलनिधेरस्तेऽगस्तेमहागलनालिका, भवति जगति क्षान्तिः शान्तिङ्करी वतिनां सदा ॥ ६२ ॥
क्षमागुणः साधुगणस्य मजुलो, महाव्रतं क्रोधजयाय जायते ।।
___ गुणा विना तं निखिला हि निष्फला, यथैककाङ्कं लिखितास्तु बिन्दवः ॥ ६३ ॥ क्रोधाग्निईन्द्वधूमो धवलशमगृहश्यामकारी प्रवृद्धः, स्वान्तध्वान्तप्रवृत्ति प्रबलशुभमनोभाववृक्षप्रदाही। उद्गच्छत्प्रौढनिन्दाकुवचननिकराचिर्भवेद्यः क्षमाम्भो–धाराभिस्तं विधेहि स्वपरहितकरं चारुनिर्वाणरूपम् ॥६॥
यः क्षमासुयुवति रुचिराङ्गीमुद्हेत्प्रणिपतन्ति सुरास्तम् । निवतिः करगता किल तस्य, स्वर्गवाससुखसम्पदयत्ना ॥६५॥
इति क्षमारूपः प्रथमो यतिधर्मः संपूर्णः ॥ १॥
॥
८
॥
Jan Education
For Privale & Personal use only
..
.jainelibrary.org

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28