Book Title: Updesh Shataka
Author(s): Vimalsuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
उपदेश
शतकम्
॥ अथ तृतीयो धर्मः ॥ चारित्रार्यमरोधनेऽभ्रपटली सत्सङ्गसंछेदने, स्फूर्जत्खगलताञ्चितां गुणमृतौ संसारवाधौ नदीम् । मायां सिद्धिनिषेधिनीं त्यज मुने! व्याघ्रीमिवाध्वस्थितां, मुक्तौ गन्तुमना भवान्यदि तदा निर्व्याजता भज्यताम् ॥ नरकपूर्गमने बत गोपुरं, त्रिदिवमार्गविघातभुजङ्गमः ।
[७० ॥ सकलदोषमतङ्गजविन्ध्यभूः, परिहर त्वमतः किल कैतवम् ॥ ७१ ॥ माया मण्डनमेव मोहनृपतेः संसारवृक्षाम्बुदो, रातिः सत्यरवेर्विनाशकरणे मिथ्यात्वकेलीगृहम् । विश्वासेन्दुविनिग्रहेऽपि तमसस्तुण्डद्युतिः खानिका, दोषाणां वरसाधुभिः परिहता यैस्तैः प्रलब्धं शिवम् ॥७२॥
पूजन्ति देवांस्तु वपन्ति वित्तं, सत्सु व्रतं चाददते तपन्ति । तपस्त्यजन्ति प्रमदादिवर्ग, मायां न मुञ्चन्ति वृथेति सर्वम् ॥ ७३ ॥
इति आर्जवनामा तृतीयो यतिधर्मः समाप्तः ।। ३ ।।
Jain Education Inte
For Privale & Personal use only
W
w
.jainelibrary.org

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28