Book Title: Updesh Shataka Author(s): Vimalsuri, Publisher: Devchand Lalbhai Pustakoddhar Fund View full book textPage 8
________________ शतकम् उपदेश [] ॥पञ्चमी अन्यत्वभावना ॥ अन्यच्छरीरं धनधान्यमन्यदन्यैव रामा गृहभारशक्ता । अन्ये त्वदीयाः सुतबान्धवाद्याः, सर्व पृथक्त्वं(क्वं) नखवच्च हस्तात् ॥ ३०॥ पाषाणात्सलिलं मणिर्विषधरात्तोयाच्च तैलं यथा, शर्वर्या दिवसं तमो दिनमणेश्छायातपादिग्गता । श्वेतात् कृष्णतरः कटोश्च मधुरो दुःखात्सुखं चापरं, तद्वत्सर्वमिदं हि वस्तु भवतो विद्धि त्वमन्यत्तथा ॥ ३१॥ वहति वृषभः सारं भारं गृहे घृतभुक् सदा, यदि स च जराजीर्णोऽभून्नो लभेत तृणं तदा । अयमिव भवे लोकः शोकाकुलः किल सर्वदा, किमु जडमतेऽन्यार्थ स्वाथै त्यजेर्भवमर्मदा (:) ॥ ३२॥ जनन्या ययाधारि कुक्षौ सुतो यः, पयोऽपायि विष्मूत्रशुद्धिस्त्वकारि । युवाऽभूद्यदा तेन जाया न्यषेवि, ततोऽन्यन्मयाऽज्ञायि धर्मः सहायः ॥ ३३ ॥ इति अन्यत्वभावना संपूर्णा ॥ ५॥ ॥४ ॥ Jan Eden For Privale & Personal use only www.jainelibrary.orgPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28