Book Title: Updesh Shataka
Author(s): Vimalsuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 11
________________ ॥ अष्टमी संवरभावना ॥ घनमुनिवराः श्राद्धाः सिद्धा मनस्तनुसंवरात् , प्रभवति महालब्धिव्यूहो गदार्तिविनाशकः । त्रिदशपतयो देव्यो नार्यो नमन्ति नरेश्वरा, असुरविभवः श्रीमद्वीरं समाधिसमन्वितम् ॥ ४२ ॥ समवसरणे रत्नैः स्वर्णैः कृते रजतैर्मणी-कनकरचिते स्थित्वा सिंहासने परमेष्ठिनः। नृपशुसुरवाक्संवादिन्या गिरोपदिशन्ति ते, पिहितसकलाक्षव्यापाराच्छिवं व्रतसंवरात् ॥ ४३ ॥ धरत समितिं गुप्ति मेयां त्रिभिः किल पञ्चभिस्त्यजत हि मनोभृङ्गं सङ्गीभवन्तमहेनिशम् । विरसविषये पुष्पौपम्ये परीषहवाहिनी, जयत जगदीशोक्ते मुक्तर्निबन्धनमीरितम् ॥ ४४ ॥ करणसदनद्वारावारं विभाननिवासद, भजत भविनोऽवश्यं वश्यं भवेच्च शिवाश्रियः । चरमभगवद्भक्ता सिहायिका वरदायिनी, सृजति सुखकृहिन्नाभावं सुसंवरिणामिह ॥ ४५ ॥ इति श्रीवीरजिनस्तुतिगर्भितसंवरभावना संपूर्णा ॥ ८॥ Sain Education Inter For Privale & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28