Book Title: Updesh Shataka
Author(s): Vimalsuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
उपदेश
शतकम्
॥ सप्तमी आश्रवभावना ॥ कासारो वारिमार्गः प्रचुरजलभरः स्याद्यथा मर्त्यलोके, जीवेऽस्मिन्नाश्रवौधैरशुभशुभकरैः कर्मराशिस्तथैव । . दुःखी चादुःख एको जगति रचनया कर्मणोऽयं विचित्रस्तस्माद्वध्नीहि पाली विषयरुचिमनोवाग्वपुर्योगरोधैः॥३८॥ अनन्ता आत्मानो नरकभवने ह्याश्रववशाद्ययुर्वा यास्यन्ति प्रबलविषया यन्ति बहवः । अतस्तं मिथ्यात्वाविरतिकरणक्रोधशयनप्रमादं दुर्मोचं भवभयपुरं मुञ्च मनसा ॥ ३९ ॥ क्रियाः कुगतिकारणं जगति विंशतिः पञ्चयुक, प्रवृत्तिरपि दु:खदा व्रतवतां वचश्चेतसाम् । हृषीकदमनं वरं कुरु शिवे यदीच्छास्ति ते, पिधानमिदमाश्रवः श्रमणधर्मरोधाध्वनः ॥ ४०॥ क्रोधो बोधविरोधकः सुविनयामानश्च मानो भवेत, मायापायविधायिनी भवबने लोभो वृषक्षोभकः । वर्गद्वारकपाटकस्त्वविरतियोगा हि रोगाश्रयास्तत्सङ्गं परिहीयतां जिनपतेः श्रुत्वाऽऽगमं सादरम् ॥४१॥
इति आश्रवभावना संपूर्णा ॥ ७ ॥
॥
५
॥
Jain Education in
For Privale & Personal use only
H
T
ww.jainelibrary.org

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28