Book Title: Updesh Shataka
Author(s): Vimalsuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 12
________________ [१२] शतकम् उपदेश ॥ नवमी निर्जराभावना ॥ यत्कर्माहिविषामृतं जिनवरा यच्च श्रयन्ति ध्रुवं, येनानेकजनाः शिवं हि गमिता यस्मै नमस्यन्ति वा। यस्मात्पारगचक्रिलब्ध्यनुभवो यस्य प्रभावाच्छुभं, यस्मिन्सन्ति गुणा घनाः कुरु तपस्तन्मुक्तिकामो मुने! ॥४६॥ विघ्नौघस्तपसः प्रणश्यति यथा ध्वान्तं रवेरम्बुदो, वायोः सिंहाशशोर्गजश्च शिखिनः सर्पो निदाघाजडः। बाह्याभ्यन्तररूपषड्डिधामिदं सन्निर्जराकारणं, मा कार्षीस्त्वमनुद्यमं तपसि चेत्सिद्ध्यङ्गनाकामुकः ॥ १७ ॥ खनति भवसमुत्थं कर्मकन्दं समूलं, जनननिधनपीडाध्वंसनार्थ त्रिशूलम् । अनुपमनिजशक्तिप्राप्तिकालानुकूलं, जगति जिनवरोक्ता निर्जरा क्षेमकूलम् ॥ ४८ ॥ तस्मान्नास्ति तमो भवेद्भवतु वा लब्धिर्बभूवाभवद्भूयाहा भविता जिनो वसुसुखं स्वार्थो भविष्यत्यपि । छद्मानेहसि यत्त्वभूद्यतिपतेर्वीरस्य घोरं तपो, नाधास्यद्यदि नाभविष्यदपि यद्धन्यः प्रशंसास्पदम् ॥ १९॥ इति निर्जराभावना संपूर्णा ॥ ९॥ JainEducation ints For Privale & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28