Book Title: Updesh Shataka Author(s): Vimalsuri, Publisher: Devchand Lalbhai Pustakoddhar Fund View full book textPage 7
________________ ॥ चतुर्थी एकत्वभावना ॥ उत्पन्न परलोकतोऽत्र भवता गन्तव्यमेकाकिना, संबन्धः किल कृत्रिमो हि युवतेतुश्च पित्रोः पुनः । | पुत्राणां दुहितुः पतेः श्वशुरयोः श्यालस्य मातृष्वसुस्तस्मात्स्थास्यति सर्वमत्र सहगो धर्मो भवेदेककः ॥२६॥ एकस्त्वं गुणभृत्सदैव भुवने कस्यापि कश्चिन्न ते, सर्वः स्वार्थपरः पिता च जननी सूनुर्वधूर्बान्धवः । दायादः खजन: सुहृच्च भगिनी स्वामी तथा सेवको, हित्वा तत्प्रतिबन्धनं जिनपतेर्धर्म भज त्वं मुदा ॥२७॥ वसति युवतिर्वेश्मान्तर्वा धनं धरणीतले, पवनजविनो वाजिव्यूहा धनोपमिता गजाः। प्रबलसुभटाः स्वस्वस्थाने रथाः पतिताः पुनः, परभवगतावेको जीवश्चलेद्गतसम्बलः ॥ २८ ॥ एको धनेशो वरभोगभोजी, छेको वराको दररोगयोजी। एकः सुरूपस्तु कुरूप एको, धर्म कुरु त्वं तत एक एव ॥ २९ ॥ इति एकत्वभावना संपूर्णा ॥ ४ ॥ Jain Education inten For Privale & Personal use only www.jainelibrary.orgPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28