Book Title: Updesh Shataka
Author(s): Vimalsuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 6
________________ उपदेश शतकम् ॥ तृतीया संसारभावना ॥ संसारस्य सुखं त्वयापि बहुशो भुक्तं भवे भ्राम्यता, योनिः काचन नास्ति यत्र न मृतो जातो न वा त्वं कदा । प्रीतिं किं विदधासि तत्र जडधी रोगाधिशोकाकुले, बुद्धि जैनमते निधेहि नितरां संसारमोहं त्यजन् ॥ २२ ॥ कदाचिद्देवोऽभूः क्वचिदपि नरः प्राणविकलो, गतिस्तिर्यग्योनौ जनकजननीभेदरहितः।। महत्कष्टं सोढं नरकभवजं वर्षशतकैरहो ! अद्यापि त्वं भवविरतिमस्मिन्न लभसे ॥ २३ ॥ Mail कचिदपि हयः सिंहः सो गजो ऋ(ख)षभःखरः, क्वचिदजगरोऽभूस्त्वं चाखुः कदापि मृगः शुनः । भुवि पयसि वा वह्नौ वायौ वनस्पतिके स्थितो, जड! किमधुना संसारेऽस्मिन् रतिस्तव तादृशी ? ॥ २४ ॥ धनेशो वराको नृपो दासवृत्तिरपुत्रः सपुत्रः कदा कामरूपः । कुरूपः सयोगी वियोगी नरोऽभूर्यथा चाधुना मृढ धर्म भज त्वम् ॥ २५ ॥ इति संसारभावना संपूर्णा ॥ ३ ॥ Jain Education International For Privale & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28