Book Title: Trishashti Shakala Purush Charitam Part 1
Author(s): Hemchandracharya, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 280
________________ त्रिषष्टिशलाकापुरुषचरिते प्रथमं पर्व चतुर्थः सर्गः श्रीऋषभस्वामिचरितम् । ॥२३१ ।। पादाधःस्थतया तस्य, नवाऽपि निधयोऽनिशम् । हेमाब्जानीव वृषभप्रभोर्विहरतोऽभवन् ॥७१६ ॥ सदा षोडशभिर्देवसहस्रः पारिपार्श्विकैः । अनल्पवेतनक्रीतैरात्मरक्षरिवाऽऽवृतः ॥७१७ ॥ नृपाणां नृपकन्यानामिव निर्भरभक्तितः । द्वात्रिंशता सहस्रैः स, निरन्तरमुपास्यत ॥७१८ ।। द्वात्रिंशता सहौः स, नाटकानामिवाऽनिशम् । जानपदीनां कन्यानामरंस्ताऽवनिवासवः ॥ ७१९ ।। स जगत्यामेकभूपः, सूपकारवरैरभात् । शतैस्त्रिभिस्त्रिषष्ट्यग्रैर्वासरैरिव वत्सरः ।। ७२० ॥ श्रेणिप्रश्रेणिभिः सोऽष्टादशभिः पृथिवीतले । प्रावर्तयद् व्यवहारं, लिपिभिर्नाभिभूरिव ।। ७२१ ।। लक्षश्चतुरशीत्याऽभात्, स रथद्विपवाजिनाम् । प्रत्येक ग्रामपत्तीनां, षण्णवत्या च कोटिभिः ॥ ७२२ ॥ द्वात्रिंशतो जनपदसहस्राणामधीश्वरः । द्वासप्ततेः पुरवरसहस्राणां च स प्रभुः ।।७२३ ।। सहस्रोनद्रोणमुखलक्षस्याऽधिपतिश्च सः । पत्तनाष्टाचत्वारिंशत्सहस्राणां च सोऽधिभूः ।। ७२४ ।। कर्बटानां मडम्बानामिव साडम्बरश्रियाम् । चतुर्विंशतिसहस्रसङ्ख्यातानां स ईशिता ।। ७२५ ॥ स विंशतिसहस्राणामाकराणां करेश्वरः । तथा खेटसहस्राणां, षोडशानां प्रशासिता ॥७२६ ।। चतुर्दशानां सम्बाधसहस्राणामपि प्रभुः । अधिपोऽन्तरोदेकानां, स षट्पञ्चाशतोऽपि च ॥७२७ ॥ १ बहुमूल्यक्रीतैः । २ अन्तरद्वीपानाम् । भरतस्य राज्यर्द्धिः । ॥२३१ ।।

Loading...

Page Navigation
1 ... 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399