Book Title: Trishashti Shakala Purush Charitam Part 1
Author(s): Hemchandracharya, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 355
________________ त्रिषष्टिशलाकापुरुषचरिते प्रथमं पर्व षष्ठः सर्गः श्रीऋषभस्वामि-- चरितम् । ॥३०६ ॥ रेजुर्ध्वजपटास्तेषु, समीरणतरङ्गिताः । आकाशगङ्गातरलतरङ्गभ्रान्तिदायिनः ।। ११२ ।। अधोऽधस्तोरणान्यासन्, मौक्तिकस्वस्तिकादयः । जगतो मङ्गलमिहेत्यालेख्यलिपिविभ्रमाः ।।११३ ॥ तत्रोा रचिते पीठे, वप्रं वैमानिकाः सुराः । रत्नाकरश्रीसर्वस्वमिव रत्नमयं व्यधुः ॥११४ ।। तैश्चक्रे तत्र माणिक्यकपिशीर्षपरम्परा । चन्द्रचण्डांशुमालेव, मानुषोत्तरसीमनि ॥ ११५ ॥ वलयीकृत्य हेमाद्रिशृङ्गमेकमिवाऽमलम् । प्राकारं मध्यमं ज्योतिष्पतयः काञ्चनं व्यधुः ॥११६ ॥ चक्रिरे कपिशीर्षाणि, तत्र रत्नमयानि ते । सचित्राणीव सुचिरं, प्रेक्षकप्रतिबिम्बितैः ।। ११७ ॥ विदधुर्भवनाधीशा, रौप्यं वप्रमधस्तनम् । कुण्डलीभूतशेषाहिभोगभ्रमविधायिनम् ॥ ११८ ॥ चक्रुस्ते काञ्चनीं तत्र, कपिशीर्षपरम्पराम् । क्षीरोदेतीरनीरस्थसुपर्णश्रेणिविभ्रमाम् ।। ११९ ।। वप्रे वप्रे च चत्वारि, चक्रिरे गोपुराणि तैः । तदा विनीतानगरीप्राकारे गुह्यकैरिव ॥ १२० ॥ गोपुरेषु च माणिक्यतोरणान्यक्रियन्त तैः । प्रसारिभिः शतगुणानीव स्वैरेव रश्मिभिः ॥ १२१ ॥ द्वारे द्वारे न्यधीयन्त, व्यन्तरैधूपचारकाः । चक्षुरक्षाञ्जनलेखासदृग्धूपोर्मिधारिणः ॥ १२२ ॥ मध्यवप्रान्तरे पूर्वोदीच्यां विश्रान्तये विभोः । देवच्छन्दं व्यधुर्देवा, देवालयमिवौकसि ।।१२३ ।। त्रिकोशमानश्चैत्यगुर्विचक्रे व्यन्तरामरैः । अन्तःसमवसरणं, पोतान्तरिव फॅपकः ।। १२४ ।। पीठं रत्नमयं चक्रुस्तेऽथ चैत्यतरोरधः । तं मूलतः पल्लवितमिव कुर्वाणमंशुभिः ।। १२५ ॥ १ मण्डलीकृत्य । २ क्षीरसमुद्रतटजलस्थगरुडपतिविभ्रमाम् । ३ यक्षैः । ४ किरणैः । + खायितधू । ५ प्रवहणान्तः कूपस्तम्भ इव । ६ चैत्यतरुम् । समवसरणम् । ॥३०६ ॥

Loading...

Page Navigation
1 ... 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399